Click on words to see what they mean.

संजय उवाच ।मद्राधिपस्याधिरथिस्तदैवं वचो निशम्याप्रियमप्रतीतः ।उवाच शल्यं विदितं ममैतद्यथाविधावर्जुनवासुदेवौ ॥ १ ॥
शौरे रथं वाहयतोऽर्जुनस्य बलं महास्त्राणि च पाण्डवस्य ।अहं विजानामि यथावदद्य परोक्षभूतं तव तत्तु शल्य ॥ २ ॥
तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ व्यपेतभीर्योधयिष्यामि कृष्णौ ।संतापयत्यभ्यधिकं तु रामाच्छापोऽद्य मां ब्राह्मणसत्तमाच्च ॥ ३ ॥
अवात्सं वै ब्राह्मणच्छद्मनाहं रामे पुरा दिव्यमस्त्रं चिकीर्षुः ।तत्रापि मे देवराजेन विघ्नो हितार्थिना फल्गुनस्यैव शल्य ॥ ४ ॥
कृतोऽवभेदेन ममोरुमेत्य प्रविश्य कीटस्य तनुं विरूपाम् ।गुरोर्भयाच्चापि न चेलिवानहं तच्चावबुद्धो ददृशे स विप्रः ॥ ५ ॥
पृष्टश्चाहं तमवोचं महर्षिं सूतोऽहमस्मीति स मां शशाप ।सूतोपधावाप्तमिदं त्वयास्त्रं न कर्मकाले प्रतिभास्यति त्वाम् ॥ ६ ॥
अन्यत्र यस्मात्तव मृत्युकालादब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् ।तदद्य पर्याप्तमतीव शस्त्रमस्मिन्संग्रामे तुमुले तात भीमे ॥ ७ ॥
अपां पतिर्वेगवानप्रमेयो निमज्जयिष्यन्निवहान्प्रजानाम् ।महानगं यः कुरुते समुद्रं वेलैव तं वारयत्यप्रमेयम् ॥ ८ ॥
प्रमुञ्चन्तं बाणसंघानमोघान्मर्मच्छिदो वीरहणः सपत्रान् ।कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे ज्याकर्षिणामुत्तममद्य लोके ॥ ९ ॥
एवं बलेनातिबलं महास्त्रं समुद्रकल्पं सुदुरापमुग्रम् ।शरौघिणं पार्थिवान्मज्जयन्तं वेलेव पार्थमिषुभिः संसहिष्ये ॥ १० ॥
अद्याहवे यस्य न तुल्यमन्यं मन्ये मनुष्यं धनुराददानम् ।सुरासुरान्वै युधि यो जयेत तेनाद्य मे पश्य युद्धं सुघोरम् ॥ ११ ॥
अतिमानी पाण्डवो युद्धकामो अमानुषैरेष्यति मे महास्त्रैः ।तस्यास्त्रमस्त्रैरभिहत्य संख्ये शरोत्तमैः पातयिष्यामि पार्थम् ॥ १२ ॥
दिवाकरेणापि समं तपन्तं समाप्तरश्मिं यशसा ज्वलन्तम् ।तमोनुदं मेघ इवातिमात्रो धनंजयं छादयिष्यामि बाणैः ॥ १३ ॥
वैश्वानरं धूमशिखं ज्वलन्तं तेजस्विनं लोकमिमं दहन्तम् ।मेघो भूत्वा शरवर्षैर्यथाग्निं तथा पार्थं शमयिष्यामि युद्धे ॥ १४ ॥
प्रमाथिनं बलवन्तं प्रहारिणं प्रभञ्जनं मातरिश्वानमुग्रम् ।युद्धे सहिष्ये हिमवानिवाचलो धनंजयं क्रुद्धममृष्यमाणम् ॥ १५ ॥
विशारदं रथमार्गेष्वसक्तं धुर्यं नित्यं समरेषु प्रवीरम् ।लोके वरं सर्वधनुर्धराणां धनंजयं संयुगे संसहिष्ये ॥ १६ ॥
अद्याहवे यस्य न तुल्यमन्यं मध्येमनुष्यं धनुराददानम् ।सर्वामिमां यः पृथिवीं सहेत तथा विद्वान्योत्स्यमानोऽस्मि तेन ॥ १७ ॥
यः सर्वभूतानि सदेवकानि प्रस्थेऽजयत्खाण्डवे सव्यसाची ।को जीवितं रक्षमाणो हि तेन युयुत्सते मामृते मानुषोऽन्यः ॥ १८ ॥
अहं तस्य पौरुषं पाण्डवस्य ब्रूयां हृष्टः समितौ क्षत्रियाणाम् ।किं त्वं मूर्खः प्रभषन्मूढचेता मामवोचः पौरुषमर्जुनस्य ॥ १९ ॥
अप्रियो यः परुषो निष्ठुरो हि क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् ।हन्यामहं तादृशानां शतानि क्षमामि त्वां क्षमया कालयोगात् ॥ २० ॥
अवोचस्त्वं पाण्डवार्थेऽप्रियाणि प्रधर्षयन्मां मूढवत्पापकर्मन् ।मय्यार्जवे जिह्मगतिर्हतस्त्वं मित्रद्रोही सप्तपदं हि मित्रम् ॥ २१ ॥
कालस्त्वयं मृत्युमयोऽतिदारुणो दुर्योधनो युद्धमुपागमद्यत् ।तस्यार्थसिद्धिमभिकाङ्क्षमाणस्तमभ्येष्ये यत्र नैकान्त्यमस्ति ॥ २२ ॥
मित्रं मिदेर्नन्दतेः प्रीयतेर्वा संत्रायतेर्मानद मोदतेर्वा ।ब्रवीति तच्चामुत विप्रपूर्वात्तच्चापि सर्वं मम दुर्योधनेऽस्ति ॥ २३ ॥
शत्रुः शदेः शासतेः शायतेर्वा शृणातेर्वा श्वयतेर्वापि सर्गे ।उपसर्गाद्बहुधा सूदतेश्च प्रायेण सर्वं त्वयि तच्च मह्यम् ॥ २४ ॥
दुर्योधनार्थं तव चाप्रियार्थं यशोर्थमात्मार्थमपीश्वरार्थम् ।तस्मादहं पाण्डववासुदेवौ योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ॥ २५ ॥
अस्त्राणि पश्याद्य ममोत्तमानि ब्राह्माणि दिव्यान्यथ मानुषाणि ।आसादयिष्याम्यहमुग्रवीर्यं द्विपोत्तमं मत्तमिवाभिमत्तः ॥ २६ ॥
अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं क्षेप्स्ये पार्थायाप्रतिमं जयाय ।तेनापि मे नैव मुच्येत युद्धे न चेत्पतेद्विषमे मेऽद्य चक्रम् ॥ २७ ॥
वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः ।सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ॥ २८ ॥
नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः ।इति शल्य विजानीहि यथा नाहं बिभेम्यभीः ॥ २९ ॥
तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् ।अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति ॥ ३० ॥
श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् ।युध्यमानस्य संग्रामे प्राप्तस्यैकायने भयम् ॥ ३१ ॥
तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् ।एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ ३२ ॥
होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् ।चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः ॥ ३३ ॥
ईषादन्तान्सप्तशतान्दासीदासशतानि च ।ददतो द्विजमुख्याय प्रसादं न चकार मे ॥ ३४ ॥
कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश ।आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ॥ ३५ ॥
ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किंचन ।तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ॥ ३६ ॥
ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः ।व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ॥ ३७ ॥
अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् ।तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ॥ ३८ ॥
मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया ।मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ॥ ३९ ॥
इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया ।जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ॥ ४० ॥
« »