Click on words to see what they mean.

संजय उवाच ।ततः परानीकभिदं व्यूहमप्रतिमं परैः ।समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ॥ १ ॥
प्रययौ रथघोषेण सिंहनादरवेण च ।वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ॥ २ ॥
वेपमान इव क्रोधाद्युद्धशौण्डः परंतपः ।प्रतिव्यूह्य महातेजा यथावद्भरतर्षभ ॥ ३ ॥
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव ।युधिष्ठिरं चाभिभवन्नपसव्यं चकार ह ॥ ४ ॥
धृतराष्ट्र उवाच ।कथं संजय राधेयः प्रत्यव्यूहत पाण्डवान् ।धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ॥ ५ ॥
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य संजय ।प्रविभज्य यथान्यायं कथं वा समवस्थिताः ॥ ६ ॥
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् ।कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् ॥ ७ ॥
क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् ।को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ॥ ८ ॥
सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा ।कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः ॥ ९ ॥
संजय उवाच ।शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः ।परिदाय नृपं तेभ्यः संग्रामश्चाभवद्यथा ॥ १० ॥
कृपः शारद्वतो राजन्मागधश्च तरस्विनः ।सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ॥ ११ ॥
तेषां प्रपक्षे शकुनिरुलूकश्च महारथः ।सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ॥ १२ ॥
गान्धारिभिरसंभ्रान्तैः पार्वतीयैश्च दुर्जयैः ।शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ॥ १३ ॥
चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् ।संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ॥ १४ ॥
समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः ।तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह ॥ १५ ॥
निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः ।आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ॥ १६ ॥
मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः ।चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् ॥ १७ ॥
रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः ।वाहिनीप्रमुखं वीरः संप्रकर्षन्नशोभत ॥ १८ ॥
अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः ।महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः ।दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ॥ १९ ॥
तमन्वयान्महाराज स्वयं दुर्योधनो नृपः ।चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ॥ २० ॥
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः ।अशोभत महाराज देवैरिव शतक्रतुः ॥ २१ ॥
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः ।नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः ।अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ॥ २२ ॥
ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः ।सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ॥ २३ ॥
तेषां पदातिनागानां पादरक्षाः सहस्रशः ।पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ॥ २४ ॥
सादिभिः स्यन्दनैर्नागैरधिकं समलंकृतैः ।स व्यूहराजो विबभौ देवासुरचमूपमः ॥ २५ ॥
बार्हस्पत्यः सुविहितो नायकेन विपश्चिता ।नृत्यतीव महाव्यूहः परेषामादधद्भयम् ॥ २६ ॥
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः ।पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ॥ २७ ॥
ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः ।धनंजयममित्रघ्नमेकवीरमुवाच ह ॥ २८ ॥
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे ।युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ॥ २९ ॥
तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् ।यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ॥ ३० ॥
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् ।यथा भवानाह तथा तत्सर्वं न तदन्यथा ॥ ३१ ॥
यस्त्वस्य विहितो घातस्तं करिष्यामि भारत ।प्रधानवध एवास्य विनाशस्तं करोम्यहम् ॥ ३२ ॥
युधिष्ठिर उवाच ।तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् ।वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ॥ ३३ ॥
दुःशासनं शतानीको हार्दिक्यं शिनिपुंगवः ।धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् ॥ ३४ ॥
द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना ।ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ॥ ३५ ॥
संजय उवाच ।इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनंजयः ।व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ॥ ३६ ॥
अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् ।उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ॥ ३७ ॥
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः ।निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि ॥ ३८ ॥
श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् ।एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ॥ ३९ ॥
चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी ।प्रवात्येष महावायुरभितस्तव वाहिनीम् ।क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ॥ ४० ॥
पश्य कर्ण महाघोरं भयदं लोमहर्षणम् ।कबन्धं मेघसंकाशं भानुमावृत्य संस्थितम् ॥ ४१ ॥
पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् ।बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ॥ ४२ ॥
पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः ।स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ॥ ४३ ॥
सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे ।प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ॥ ४४ ॥
उदीर्यतो हयान्पश्य महाकायान्महाजवान् ।प्लवमानान्दर्शनीयानाकाशे गरुडानिव ॥ ४५ ॥
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः ।स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ॥ ४६ ॥
शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः ।आनकानां च राधेय मृदङ्गानां च सर्वशः ॥ ४७ ॥
बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् ।ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ॥ ४८ ॥
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः ।नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ॥ ४९ ॥
सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः ।पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ॥ ५० ॥
ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः ।सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ॥ ५१ ॥
नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः ।ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ॥ ५२ ॥
अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् ।निघ्नन्तं शात्रवान्संख्ये यं कर्ण परिपृच्छसि ॥ ५३ ॥
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परंतपौ ।वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ॥ ५४ ॥
सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् ।तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ॥ ५५ ॥
एष संशप्तकाहूतस्तानेवाभिमुखो गतः ।करोति कदनं चैषां संग्रामे द्विषतां बली ।इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ॥ ५६ ॥
पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः ।एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ।एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ॥ ५७ ॥
शल्य उवाच ।वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् ।को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ॥ ५८ ॥
ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् ।न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ॥ ५९ ॥
अथैवं परितोषस्ते वाचोक्त्वा सुमना भव ।न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ॥ ६० ॥
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ ६१ ॥
पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् ।प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् ॥ ६२ ॥
अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् ।एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ॥ ६३ ॥
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः ।तिष्ठत्यसुकरः संख्ये परैः परपुरंजयः ॥ ६४ ॥
एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ ।नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ॥ ६५ ॥
दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव ।व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि ॥ ६६ ॥
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः ।हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ॥ ६७ ॥
इति संवदतोरेव तयोः पुरुषसिंहयोः ।ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ॥ ६८ ॥
« »