Click on words to see what they mean.

संजय उवाच ।पुत्रस्तव महाराज मद्रराजमिदं वचः ।विनयेनोपसंगम्य प्रणयाद्वाक्यमब्रवीत् ॥ १ ॥
सत्यव्रत महाभाग द्विषतामघवर्धन ।मद्रेश्वर रणे शूर परसैन्यभयंकर ॥ २ ॥
श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर ।यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् ॥ ३ ॥
तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि ।सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ॥ ४ ॥
अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः ।स पातु सर्वतः कर्णं भवान्ब्रह्मेव शंकरम् ॥ ५ ॥
पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः ।तथा त्वमपि राधेयं सर्वतः परिपालय ॥ ६ ॥
भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् ।शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ।एषामेव कृतो भागो नवधा पृतनापते ॥ ७ ॥
नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः ।ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ॥ ८ ॥
वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ ।कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ॥ ९ ॥
तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि ।अस्मदीयाश्च बहवः स्वर्गायोपगता रणे ।त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ॥ १० ॥
कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः ।भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ।तस्मिञ्जयाशा विपुला मम मद्रजनाधिप ॥ ११ ॥
पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः ।तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ।यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ॥ १२ ॥
पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् ।अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ॥ १३ ॥
भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते ।तं भागं सह कर्णेन युगपन्नाशयाहवे ॥ १४ ॥
सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष ।तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ॥ १५ ॥
रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् ।संनिपातः समो लोके भवतोर्नास्ति कश्चन ॥ १६ ॥
यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् ।तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ॥ १७ ॥
त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति ।देवतानामपि रणे सशक्राणां महीपते ।किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम ॥ १८ ॥
दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः ।त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ॥ १९ ॥
क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः ।कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् ॥ २० ॥
अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे ।यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति ॥ २१ ॥
अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि ।न चाहं युधि राधेयं गणये तुल्यमात्मना ॥ २२ ॥
आदिश्यतामभ्यधिको ममांशः पृथिवीपते ।तमहं समरे हत्वा गमिष्यामि यथागतम् ॥ २३ ॥
अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन ।पश्य वीर्यं ममाद्य त्वं संग्रामे दहतो रिपून् ॥ २४ ॥
न चाभिकामान्कौरव्य विधाय हृदये पुमान् ।अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ॥ २५ ॥
युधि चाप्यवमानो मे न कर्तव्यः कथंचन ।पश्य हीमौ मम भुजौ वज्रसंहननोपमौ ॥ २६ ॥
धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् ।रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः ।गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ॥ २७ ॥
दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् ।शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव ॥ २८ ॥
तन्मामेवंविधं जानन्समर्थमरिनिग्रहे ।कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप ॥ २९ ॥
न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि ।न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे ॥ ३० ॥
यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् ।वशे पापीयसो धत्ते तत्पापमधरोत्तरम् ॥ ३१ ॥
ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः ।ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः ।तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ॥ ३२ ॥
अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत ।गोप्तारः संग्रहीतारो दातारः क्षत्रियाः स्मृताः ॥ ३३ ॥
याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः ।लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि ॥ ३४ ॥
कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः ।ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ॥ ३५ ॥
ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः ।न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ॥ ३६ ॥
सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसंभवः ।महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् ॥ ३७ ॥
सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन ।सूतपुत्रस्य संग्रामे सारथ्यं कर्तुमुत्सहे ॥ ३८ ॥
अवमानमहं प्राप्य न योत्स्यामि कथंचन ।आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् ॥ ३९ ॥
एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः ।उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ॥ ४० ॥
प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव ।अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् ॥ ४१ ॥
यथा शल्य त्वमात्थेदमेवमेतदसंशयम् ।अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ॥ ४२ ॥
न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथंचन ।न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ॥ ४३ ॥
ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः ।तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ॥ ४४ ॥
शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद ।तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ॥ ४५ ॥
यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण ।तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ॥ ४६ ॥
न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् ।वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे ॥ ४७ ॥
यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनंजयात् ।वासुदेवादपि त्वां च लोकोऽयमिति मन्यते ॥ ४८ ॥
कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ ।भवानप्यधिकः कृष्णादश्वयाने बले तथा ॥ ४९ ॥
यथाश्वहृदयं वेद वासुदेवो महामनाः ।द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः ॥ ५० ॥
शल्य उवाच ।यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव ।विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ॥ ५१ ॥
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः ।युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ॥ ५२ ॥
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति ।उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ ॥ ५३ ॥
संजय उवाच ।तथेति राजन्पुत्रस्ते सह कर्णेन भारत ।अब्रवीन्मद्रराजस्य सुतं भरतसत्तम ॥ ५४ ॥
« »