Click on words to see what they mean.

धृतराष्ट्र उवाच ।स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः ।न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः ॥ १ ॥
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् ।एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥ २ ॥
एको निवातकवचानवधीद्दिव्यकार्मुकः ।एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥ ३ ॥
एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् ।तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ।ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् ॥ ४ ॥
संजय उवाच ।हतप्रहतविध्वस्ता विवर्मायुधवाहनाः ।दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः ॥ ५ ॥
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः ।भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ॥ ६ ॥
तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् ।करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ॥ ७ ॥
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा ।स बोधयति चाप्येनं प्राप्तकालमधोक्षजः ॥ ८ ॥
सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः ।श्वस्त्वहं तस्य संकल्पं सर्वं हन्ता महीपते ॥ ९ ॥
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् ।सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः ॥ १० ॥
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् ।प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥ ११ ॥
अथ प्रतीपकर्तारं सततं विजितात्मनाम् ।सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥ १२ ॥
पुरंदरसमं युद्धे मरुद्गणसमं बले ।कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ।सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥ १३ ॥
धृतराष्ट्र उवाच ।यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा ।अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् ॥ १४ ॥
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ।कथं वैकर्तनः कर्णस्तत्रायुध्यत संजय ।कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥ १५ ॥
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् ।कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् ।तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ॥ १६ ॥
दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् ।पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ॥ १७ ॥
कर्णमाश्रित्य संग्रामे दर्पो दुर्योधने पुनः ।जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥ १८ ॥
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे ।नातरद्रभसः कर्णो दैवं नूनं परायणम् ।अहो द्यूतस्य निष्ठेयं घोरा संप्रति वर्तते ॥ १९ ॥
अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् ।सहिष्यामि सुघोराणि शल्यभूतानि संजय ॥ २० ॥
सौबलं च तथा तात नीतिमानिति मन्यते ॥ २१ ॥
युद्धेषु नाम दिव्येषु वर्तमानेषु संजय ।अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् ॥ २२ ॥
न पाण्डवानां समरे कश्चिदस्ति निवारकः ।स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् ॥ २३ ॥
संजय उवाच ।अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च ।तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥ २४ ॥
तदिदं तव कार्यं तु दूरप्राप्तं विजानता ।न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे ॥ २५ ॥
उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः ।गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ॥ २६ ॥
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु ।त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥ २७ ॥
तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ ।शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत ॥ २८ ॥
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् ।समेत्य च महाबाहुर्दुर्योधनमभाषत ॥ २९ ॥
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना ।हनिष्यामि च तं वीरं स वा मां निहनिष्यति ॥ ३० ॥
बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव ।नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥ ३१ ॥
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते ।अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥ ३२ ॥
हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि ।अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ॥ ३३ ॥
ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर ।आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ॥ ३४ ॥
कायस्य महतो भेदे लाघवे दूरपातने ।सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः ॥ ३५ ॥
सर्वायुधमहामात्रं विजयं नाम तद्धनुः ।इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ॥ ३६ ॥
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः ।यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश ।तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् ॥ ३७ ॥
तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् ।येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ।यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ॥ ३८ ॥
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते ।त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ॥ ३९ ॥
धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः ।तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ॥ ४० ॥
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् ।निहत्य समरे वीरमर्जुनं जयतां वरम् ॥ ४१ ॥
सपर्वतवनद्वीपा हतद्विड्भूः ससागरा ।पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥ ४२ ॥
नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः ।सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥ ४३ ॥
न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा ।अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥ ४४ ॥
ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी ।तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ॥ ४५ ॥
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ।तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ॥ ४६ ॥
मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे ।रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ॥ ४७ ॥
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ।अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ।ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयंकरः ॥ ४८ ॥
कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति ।एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ॥ ४९ ॥
अयं तु सदृशो वीरः शल्यः समितिशोभनः ।सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ॥ ५० ॥
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः ।नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥ ५१ ॥
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः ।आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥ ५२ ॥
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् ।शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ॥ ५३ ॥
यथाश्वहृदयं वेद दाशार्हः परवीरहा ।तथा शल्योऽपि जानीते हयानां वै महारथः ॥ ५४ ॥
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन ।तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ॥ ५५ ॥
तथा शल्यसमो नास्ति हययाने ह कश्चन ।सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम ॥ ५६ ॥
एतत्कृतं महाराज त्वयेच्छामि परंतप ।एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ॥ ५७ ॥
ततो द्रष्टासि समरे यत्करिष्यामि भारत ।सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ॥ ५८ ॥
दुर्योधन उवाच ।सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे ।सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ॥ ५९ ॥
नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते ।अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥ ६० ॥
संजय उवाच ।एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् ।अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥ ६१ ॥
« »