Click on words to see what they mean.

दुर्योधन उवाच ।भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु ।यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ॥ १ ॥
यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः ।तदशेषेण ब्रुवतो मम राजर्षिसत्तम ।त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ॥ २ ॥
देवानामसुराणां च महानासीत्समागमः ।बभूव प्रथमो राजन्संग्रामस्तारकामयः ।निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ॥ ३ ॥
निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः ।ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ॥ ४ ॥
तप उग्रं समास्थाय नियमे परमे स्थिताः ।तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ॥ ५ ॥
दमेन तपसा चैव नियमेन च पार्थिव ।तेषां पितामहः प्रीतो वरदः प्रददौ वरान् ॥ ६ ॥
अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा ।सहिता वरयामासुः सर्वलोकपितामहम् ॥ ७ ॥
तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः ।नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः ।वरमन्यं वृणीध्वं वै यादृशं संप्ररोचते ॥ ८ ॥
ततस्ते सहिता राजन्संप्रधार्यासकृद्बहु ।सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ॥ ९ ॥
अस्माकं त्वं वरं देव प्रयच्छेमं पितामह ।वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ।विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ॥ १० ॥
ततो वर्षसहस्रे तु समेष्यामः परस्परम् ।एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ॥ ११ ॥
समागतानि चैतानि यो हन्याद्भगवंस्तदा ।एकेषुणा देववरः स नो मृत्युर्भविष्यति ।एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ॥ १२ ॥
ते तु लब्धवराः प्रीताः संप्रधार्य परस्परम् ।पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् ।विश्वकर्माणमजरं दैत्यदानवपूजितम् ॥ १३ ॥
ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह ।त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ॥ १४ ॥
काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् ।आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ॥ १५ ॥
एकैकं योजनशतं विस्तारायामसंमितम् ।गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् ॥ १६ ॥
गुणप्रसवसंबाधमसंबाधमनामयम् ।प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् ॥ १७ ॥
पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् ।काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ।राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ॥ १८ ॥
त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा ।आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः ॥ १९ ॥
तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च ।कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ।महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ॥ २० ॥
सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः ।तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ॥ २१ ॥
यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः ।तस्मै कामं मयस्तं तं विदधे मायया तदा ॥ २२ ॥
तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः ।तपस्तेपे परमकं येनातुष्यत्पितामहः ॥ २३ ॥
स तुष्टमवृणोद्देवं वापी भवतु नः पुरे ।शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ॥ २४ ॥
स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः ।ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ॥ २५ ॥
येन रूपेण दैत्यस्तु येन वेषेण चैव ह ।मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ॥ २६ ॥
तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे ।महता तपसा सिद्धाः सुराणां भयवर्धनाः ।न तेषामभवद्राजन्क्षयो युद्धे कथंचन ॥ २७ ॥
ततस्ते लोभमोहाभ्यामभिभूता विचेतसः ।निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ॥ २८ ॥
विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा ।विचेरुः स्वेन कामेन वरदानेन दर्पिताः ॥ २९ ॥
देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् ।ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा ।व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ॥ ३० ॥
ते देवाः सहिताः सर्वे पितामहमरिंदम ।अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ॥ ३१ ॥
ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च ।वधोपायमपृच्छन्त भगवन्तं पितामहम् ॥ ३२ ॥
श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह ।असुराश्च दुरात्मानस्ते चापि विबुधद्विषः ।अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ॥ ३३ ॥
अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः ।अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ॥ ३४ ॥
ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् ।योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ॥ ३५ ॥
इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः ।ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ॥ ३६ ॥
तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् ।ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ॥ ३७ ॥
तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् ।सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ॥ ३८ ॥
तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः ।यः सांख्यमात्मनो वेद यस्य चात्मा वशे सदा ॥ ३९ ॥
ते तं ददृशुरीशानं तेजोराशिमुमापतिम् ।अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ॥ ४० ॥
एकं च भगवन्तं ते नानारूपमकल्पयन् ।आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ।परस्परस्य चापश्यन्सर्वे परमविस्मिताः ॥ ४१ ॥
सर्वभूतमयं चेशं तमजं जगतः पतिम् ।देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ॥ ४२ ॥
तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः ।ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ॥ ४३ ॥
त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः ।नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ॥ ४४ ॥
नमो देवातिदेवाय धन्विने चातिमन्यवे ।प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे ॥ ४५ ॥
नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे ।विलोहिताय रुद्राय नीलग्रीवाय शूलिने ॥ ४६ ॥
अमोघाय मृगाक्षाय प्रवरायुधयोधिने ।दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ॥ ४७ ॥
ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे ।तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे ॥ ४८ ॥
कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे ।प्रपन्नार्तिविनाशाय ब्रह्मद्विट्संघघातिने ॥ ४९ ॥
वनस्पतीनां पतये नराणां पतये नमः ।गवां च पतये नित्यं यज्ञानां पतये नमः ॥ ५० ॥
नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे ।मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ॥ ५१ ॥
ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् ।प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ॥ ५२ ॥
पितृदेवर्षिसंघेभ्यो वरे दत्ते महात्मना ।सत्कृत्य शंकरं प्राह ब्रह्मा लोकहितं वचः ॥ ५३ ॥
तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् ।मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः ॥ ५४ ॥
तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति ।त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ॥ ५५ ॥
स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् ।कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ॥ ५६ ॥
श्रीभगवानुवाच ।हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः ।न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ॥ ५७ ॥
ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा ।जयध्वं युधि ताञ्शत्रून्संघातो हि महाबलः ॥ ५८ ॥
देवा ऊचुः ।अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च ।तेषामिति ह मन्यामो दृष्टतेजोबला हि ते ॥ ५९ ॥
भगवानुवाच ।वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः ।मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ॥ ६० ॥
देवा ऊचुः ।बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर ।सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ॥ ६१ ॥
दुर्योधन उवाच ।ततस्तथेति देवेशस्तैरुक्तो राजसत्तम ।अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ॥ ६२ ॥
स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः ।महादेव इति ख्यातस्तदाप्रभृति शंकरः ॥ ६३ ॥
ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् ।हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ॥ ६४ ॥
ते यूयं मे रथं चैव धनुर्बाणं तथैव च ।पश्यध्वं यावदद्यैतान्पातयामि महीतले ॥ ६५ ॥
देवा ऊचुः ।मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः ।रथं ते कल्पयिष्याम देवेश्वर महौजसम् ॥ ६६ ॥
तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् ।ततो विबुधशार्दूलास्तं रथं समकल्पयन् ॥ ६७ ॥
वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् ।सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ॥ ६८ ॥
मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः ।दिशश्च प्रदिशश्चैव परिवारं रथस्य हि ॥ ६९ ॥
अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः ।धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ।ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ॥ ७० ॥
सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे ।पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ॥ ७१ ॥
दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् ।द्यां युगं युगचर्माणि संवर्तकबलाहकान् ॥ ७२ ॥
शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च ।ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ॥ ७३ ॥
सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् ।सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ।योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ॥ ७४ ॥
कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः ।अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ॥ ७५ ॥
नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः ।विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ॥ ७६ ॥
एवं तस्मिन्महाराज कल्पिते रथसत्तमे ।देवैर्मनुजशार्दूल द्विषतामभिमर्दने ॥ ७७ ॥
स्वान्यायुधानि मुख्यानि न्यदधाच्छंकरो रथे ।रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् ॥ ७८ ॥
ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः ।परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ॥ ७९ ॥
अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः ।ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ॥ ८० ॥
इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः ।दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः ॥ ८१ ॥
तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च ।ओंकारश्च मुखे राजन्नतिशोभाकरोऽभवत् ॥ ८२ ॥
विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः ।तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ॥ ८३ ॥
इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च ।अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ॥ ८४ ॥
विष्णुश्चात्मा भगवतो भवस्यामिततेजसः ।तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ॥ ८५ ॥
तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः ।भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ॥ ८६ ॥
स नीललोहितो धूम्रः कृत्तिवासा भयंकरः ।आदित्यायुतसंकाशस्तेजोज्वालावृतो ज्वलन् ॥ ८७ ॥
दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः ।नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ॥ ८८ ॥
प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः ।विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ॥ ८९ ॥
तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् ।जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ॥ ९० ॥
दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी ।बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसंभवम् ॥ ९१ ॥
तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः ।पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ॥ ९२ ॥
तमास्थाय महादेवस्त्रासयन्दैवतान्यपि ।आरुरोह तदा यत्तः कम्पयन्निव रोदसी ॥ ९३ ॥
स शोभमानो वरदः खड्गी बाणी शरासनी ।हसन्निवाब्रवीद्देवो सारथिः को भविष्यति ॥ ९४ ॥
तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते ।स भविष्यति देवेश सारथिस्ते न संशयः ॥ ९५ ॥
तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः ।तं सारथिं कुरुध्वं मे स्वयं संचिन्त्य माचिरम् ॥ ९६ ॥
एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना ।गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् ॥ ९७ ॥
देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् ।तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः ॥ ९८ ॥
रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः ।सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ॥ ९९ ॥
तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम ।सफलां तां गिरं देव कर्तुमर्हसि नो विभो ॥ १०० ॥
एवमस्मासु हि पुरा भगवन्नुक्तवानसि ।हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि ॥ १०१ ॥
स देव युक्तो रथसत्तमो नो दुरावरो द्रावणः शात्रवाणाम् ।पिनाकपाणिर्विहितोऽत्र योद्धा विभीषयन्दानवानुद्यतोऽसौ ॥ १०२ ॥
तथैव वेदाश्चतुरो हयाग्र्या धरा सशैला च रथो महात्मन् ।नक्षत्रवंशोऽनुगतो वरूथे यस्मिन्योद्धा सारथिनाभिरक्ष्यः ॥ १०३ ॥
तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् ।तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ।कवचानि च शस्त्राणि कार्मुकं च पितामह ॥ १०४ ॥
त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् ।त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो ।सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ॥ १०५ ॥
इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् ।देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ॥ १०६ ॥
ब्रह्मोवाच ।नात्र किंचिन्मृषा वाक्यं यदुक्तं वो दिवौकसः ।संयच्छामि हयानेष युध्यतो वै कपर्दिनः ॥ १०७ ॥
ततः स भगवान्देवो लोकस्रष्टा पितामहः ।सारथ्ये कल्पितो देवैरीशानस्य महात्मनः ॥ १०८ ॥
तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते ।शिरोभिरगमंस्तूर्णं ते हया वातरंहसः ॥ १०९ ॥
महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् ॥ ११० ॥
अभीशून्हि त्रिलोकेशः संगृह्य प्रपितामहः ।तानश्वांश्चोदयामास मनोमारुतरंहसः ॥ १११ ॥
ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति ।साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ॥ ११२ ॥
याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः ।पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ॥ ११३ ॥
ततस्तांश्चोदयामास वायुवेगसमाञ्जवे ।येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ॥ ११४ ॥
अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम् ।युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ॥ ११५ ॥
तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके ।पुराणि तानि कालेन जग्मुरेकत्वतां तदा ॥ ११६ ॥
एकीभावं गते चैव त्रिपुरे समुपागते ।बभूव तुमुलो हर्षो दैवतानां महात्मनाम् ॥ ११७ ॥
ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः ।जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ॥ ११८ ॥
ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् ।अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ॥ ११९ ॥
स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः ।त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ।तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ॥ १२० ॥
एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः ।महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ॥ १२१ ॥
स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः ।मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ॥ १२२ ॥
ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः ।तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ॥ १२३ ॥
तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् ।कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ॥ १२४ ॥
यथैव भगवान्ब्रह्मा लोकधाता पितामहः ।संयच्छ त्वं हयानस्य राधेयस्य महात्मनः ॥ १२५ ॥
त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः ।विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ॥ १२६ ॥
युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ ।तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ॥ १२७ ॥
यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् ।प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ।त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ॥ १२८ ॥
इमं चाप्यपरं भूय इतिहासं निबोध मे ।पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ॥ १२९ ॥
श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् ।कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ॥ १३० ॥
भार्गवाणां कुले जातो जमदग्निर्महातपाः ।तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ॥ १३१ ॥
स तीव्रं तप आस्थाय प्रसादयितवान्भवम् ।अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ॥ १३२ ॥
तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च ।हृद्गतं चास्य विज्ञाय दर्शयामास शंकरः ॥ १३३ ॥
ईश्वर उवाच ।राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् ।कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ॥ १३४ ॥
दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि ।अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ॥ १३५ ॥
इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना ।प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ॥ १३६ ॥
यदा जानासि देवेश पात्रं मामस्त्रधारणे ।तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ॥ १३७ ॥
दुर्योधन उवाच ।ततः स तपसा चैव दमेन नियमेन च ।पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ॥ १३८ ॥
आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा ।प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ॥ १३९ ॥
अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः ।भक्तिमानेष सततं मयि रामो दृढव्रतः ॥ १४० ॥
एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः ।देवतानां पितॄणां च समक्षमरिसूदनः ॥ १४१ ॥
एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः ।तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ॥ १४२ ॥
ततः संभूय विबुधास्तान्हन्तुं कृतनिश्चयाः ।चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ॥ १४३ ॥
अभिगम्य ततो देवा महेश्वरमथाब्रुवन् ।प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ॥ १४४ ॥
प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् ।रामं भार्गवमाहूय सोऽभ्यभाषत शंकरः ॥ १४५ ॥
रिपून्भार्गव देवानां जहि सर्वान्समागतान् ।लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ॥ १४६ ॥
राम उवाच ।अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर ।निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ॥ १४७ ॥
ईश्वर उवाच ।गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् ।विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ॥ १४८ ॥
दुर्योधन उवाच ।एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः ।रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ॥ १४९ ॥
अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् ।वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ॥ १५० ॥
स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः ।संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ॥ १५१ ॥
प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै ।वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ॥ १५२ ॥
उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना ।निपातात्तव शस्त्राणां शरीरे याभवद्रुजा ॥ १५३ ॥
तया ते मानुषं कर्म व्यपोढं भृगुनन्दन ।गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् ॥ १५४ ॥
ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् ।लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ॥ १५५ ॥
अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः ।एवमेतत्पुरावृत्तं तदा कथितवानृषिः ॥ १५६ ॥
भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने ।कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ॥ १५७ ॥
वृजिनं हि भवेत्किंचिद्यदि कर्णस्य पार्थिव ।नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ॥ १५८ ॥
नापि सूतकुले जातं कर्णं मन्ये कथंचन ।देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ॥ १५९ ॥
सकुण्डलं सकवचं दीर्घबाहुं महारथम् ।कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ॥ १६० ॥
पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ ।वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ॥ १६१ ॥
« »