Click on words to see what they mean.

धृतराष्ट्र उवाच ।पाण्ड्ये हते किमकरोदर्जुनो युधि संजय ।एकवीरेण कर्णेन द्रावितेषु परेषु च ॥ १ ॥
समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः ।सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना ॥ २ ॥
तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनंजयात् ।स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व संजय ॥ ३ ॥
संजय उवाच ।हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥ ४ ॥
अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः ।तथाश्वनरनागानां कृतं च कदनं महत् ।इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥ ५ ॥
एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् ।वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥ ६ ॥
ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना ।दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥ ७ ॥
ततः प्रववृते भूयः संग्रामो राजसत्तम ।कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ॥ ८ ॥
धनूंषि बाणान्परिघानसितोमरपट्टिशान् ।मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥ ९ ॥
गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् ।प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥ १० ॥
बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥ ११ ॥
तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥ १२ ॥
ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् ।ताडितानां च पततां निनादः सुमहानभूत् ॥ १३ ॥
बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् ।श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥ १४ ॥
तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् ।बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥ १५ ॥
पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥ १६ ॥
योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥ १७ ॥
ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥ १८ ॥
द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥ १९ ॥
चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम् ।विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥ २० ॥
वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः ।मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥ २१ ॥
पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् ।ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥ २२ ॥
ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष ।यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥ २३ ॥
व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः ।प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥ २४ ॥
सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः ।गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥ २५ ॥
समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः ।नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥ २६ ॥
ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः ।वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥ २७ ॥
दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः ।जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥ २८ ॥
परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा ।शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥ २९ ॥
ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।संचकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ॥ ३० ॥
पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥ ३१ ॥
रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः ।नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥ ३२ ॥
ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः ।क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥ ३३ ॥
नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ।अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥ ३४ ॥
सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः ।पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥ ३५ ॥
प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः ।अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।सादिभिः पत्तिसंघाश्च निहता युधि शेरते ॥ ३६ ॥
मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।हतानां वदनान्यासन्गात्राणि च महामते ॥ ३७ ॥
रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप ।समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥ ३८ ॥
« »