Click on words to see what they mean.

संजय उवाच ।हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः ।धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ॥ १ ॥
प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः ।अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ॥ २ ॥
मेकलाः कोशला मद्रा दशार्णा निषधास्तथा ।गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ॥ ३ ॥
शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः ।सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे ॥ ४ ॥
तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् ।पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् ॥ ५ ॥
एकैकं दशभिः षड्भिरष्टाभिरपि भारत ।द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः ।प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः ॥ ६ ॥
पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः ।तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः ॥ ७ ॥
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ।सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ॥ ८ ॥
ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि ।हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ॥ ९ ॥
बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः ।विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः ॥ १० ॥
प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः ।नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् ॥ ११ ॥
तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः ।नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः ॥ १२ ॥
पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् ।सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः ॥ १३ ॥
विपताकं वियन्तारं विवर्मध्वजजीवितम् ।तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् ॥ १४ ॥
सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् ।नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च ॥ १५ ॥
दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् ।नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ॥ १६ ॥
तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः ।स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ॥ १७ ॥
आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे ।अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ॥ १८ ॥
चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः ।मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ॥ १९ ॥
मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः ।शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ॥ २० ॥
तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः ।परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः ॥ २१ ॥
ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह ।सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ॥ २२ ॥
नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च ।दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ॥ २३ ॥
तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः ।सहदेवो जघानाशु ते पेतुः सह सादिभिः ॥ २४ ॥
अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् ।नाराचैरहनन्नागान्नकुलः कुरुनन्दन ॥ २५ ॥
ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः ।शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ॥ २६ ॥
ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः ।बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ॥ २७ ॥
एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः ।द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् ॥ २८ ॥
ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः ।विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः ॥ २९ ॥
सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् ।दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥ ३० ॥
तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः ।सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥ ३१ ॥
ततो भारत क्रुद्धेन तव पुत्रेण धन्विना ।पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥ ३२ ॥
सहदेवस्ततो राजन्नाराचेन तवात्मजम् ।विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः ॥ ३३ ॥
दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे ।सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् ॥ ३४ ॥
सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे ।व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति ॥ ३५ ॥
समार्गणगणं चापं छित्त्वा तस्य महानसिः ।निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥ ३६ ॥
अथान्यद्धनुरादाय सहदेवः प्रतापवान् ।दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥ ३७ ॥
तमापतन्तं विशिखं यमदण्डोपमत्विषम् ।खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥ ३८ ॥
तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः ।पातयामास समरे सहदेवो हसन्निव ॥ ३९ ॥
ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे ।सहदेवरथे तूर्णं पातयामास भारत ॥ ४० ॥
ताञ्शरान्समरे राजन्वेगेनापततो बहून् ।एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ॥ ४१ ॥
स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् ।अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् ॥ ४२ ॥
ततः क्रुद्धो महाराज सहदेवः प्रतापवान् ।समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ।विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ॥ ४३ ॥
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् ।प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ।ततः स मुमुहे राजंस्तव पुत्रो महारथः ॥ ४४ ॥
मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् ।अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ॥ ४५ ॥
पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज ।दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः ॥ ४६ ॥
पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा ।तथा सा कौरवी सेना मृदिता तेन भारत ॥ ४७ ॥
नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् ।कर्णो वैकर्तनो राजन्वारयामास वै तदा ॥ ४८ ॥
नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् ।चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ॥ ४९ ॥
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः ।त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ॥ ५० ॥
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् ।त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥ ५१ ॥
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः ।सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥ ५२ ॥
प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् ।कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ॥ ५३ ॥
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः ।स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते ॥ ५४ ॥
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः ।विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥ ५५ ॥
नकुलस्तु ततो विद्धः सूतपुत्रेण भारत ।अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ॥ ५६ ॥
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः ।त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् ॥ ५७ ॥
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥ ५८ ॥
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः ॥ ५९ ॥
ततः क्रुद्धो महाराज नकुलः परवीरहा ।क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् ॥ ६० ॥
अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः ।आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥ ६१ ॥
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष ।विस्मयं परमं जग्मू रथिनः सह दैवतैः ॥ ६२ ॥
अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा ।नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् ॥ ६३ ॥
उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत ।स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥ ६४ ॥
नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः ।अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ॥ ६५ ॥
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् ।नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः ॥ ६६ ॥
संछाद्यमानः सहसा कर्णचापच्युतैः शरैः ।चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ॥ ६७ ॥
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत ।खद्योतानां गणैरेव संपतद्भिर्यथा नभः ॥ ६८ ॥
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा ।शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् ॥ ६९ ॥
ते शरा हेमविकृताः संपतन्तो मुहुर्मुहुः ।श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव ॥ ७० ॥
बाणजालावृते व्योम्नि छादिते च दिवाकरे ।समसर्पत्ततो भूतं किंचिदेव विशां पते ॥ ७१ ॥
निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः ।व्यरोचतां महाभागौ बालसूर्याविवोदितौ ॥ ७२ ॥
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः ।अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः ॥ ७३ ॥
नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव ।व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ॥ ७४ ॥
ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः ।शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते ॥ ७५ ॥
प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः ।विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः ॥ ७६ ॥
निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि ।छादयन्तौ च सहसा परस्परवधैषिणौ ॥ ७७ ॥
नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः ।ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे ॥ ७८ ॥
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन ।चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे ॥ ७९ ॥
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः ।पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥ ८० ॥
स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः ।न चकार व्यथां राजन्भास्करो जलदैर्यथा ॥ ८१ ॥
ततः प्रहस्याधिरथिः शरजालानि मारिष ।प्रेषयामास समरे शतशोऽथ सहस्रशः ॥ ८२ ॥
एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः ।अभ्रच्छायेव संजज्ञे संपतद्भिः शरोत्तमैः ॥ ८३ ॥
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः ।सारथिं पातयामास रथनीडाद्धसन्निव ॥ ८४ ॥
तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः ।यमस्य सदनं तूर्णं प्रेषयामास भारत ॥ ८५ ॥
अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः ।पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष ।शतचन्द्रं ततश्चर्म सर्वोपकरणानि च ॥ ८६ ॥
हताश्वो विरथश्चैव विवर्मा च विशां पते ।अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः ॥ ८७ ॥
तमुद्यतं महाघोरं परिघं तस्य सूतजः ।व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः ॥ ८८ ॥
व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः ।आर्दयद्बहुशः कर्णो न चैनं समपीडयत् ॥ ८९ ॥
स वध्यमानः समरे कृतास्त्रेण बलीयसा ।प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ॥ ९० ॥
तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः ।सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत ॥ ९१ ॥
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः ।परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ।यथैव च सितो मेघः शक्रचापेन शोभितः ॥ ९२ ॥
तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि ।वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः ॥ ९३ ॥
मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव ।सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ।गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ ॥ ९४ ॥
एवमुक्त्वा महाराज व्यसर्जयत तं ततः ।वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः ।स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥ ९५ ॥
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना ।व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥ ९६ ॥
आरुरोह रथं चापि सूतपुत्रप्रतापितः ।निःश्वसन्दुःखसंतप्तः कुम्भे क्षिप्त इवोरगः ॥ ९७ ॥
तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ ।रथेनातिपताकेन चन्द्रवर्णहयेन च ॥ ९८ ॥
तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते ।दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ॥ ९९ ॥
तत्राकरोन्महाराज कदनं सूतनन्दनः ।मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः ॥ १०० ॥
भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः ।ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ।ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् ॥ १०१ ॥
तत्र तत्र च संभ्रान्ता विचेरुर्मत्तकुञ्जराः ।दवाग्निना परीताङ्गा यथैव स्युर्महावने ॥ १०२ ॥
भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः ।भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष ।छिन्नाभ्राणीव संपेतुर्वध्यमाना महात्मना ॥ १०३ ॥
अपरे त्रासिता नागा नाराचशततोमरैः ।तमेवाभिमुखा यान्ति शलभा इव पावकम् ॥ १०४ ॥
अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः ।क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् ॥ १०५ ॥
उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः ।राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥ १०६ ॥
हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः ।चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥ १०७ ॥
निहतैः सादिभिश्चैव शूरैराहवशोभिभिः ।अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ॥ १०८ ॥
प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप ।हययोधानपश्याम कञ्चुकोष्णीषधारिणः ॥ १०९ ॥
रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः ।भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् ॥ ११० ॥
भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष ।विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् ॥ १११ ॥
विहीनान्रथिनस्तत्र धावमानान्समन्ततः ।सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते ॥ ११२ ॥
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् ।तावकाञ्जालसंछन्नानुरोघण्टाविभूषितान् ॥ ११३ ॥
नानावर्णविचित्राभिः पताकाभिरलंकृतान् ।पदातीनन्वपश्याम धावमानान्समन्ततः ॥ ११४ ॥
शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि ।कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् ॥ ११५ ॥
महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत ।कर्णसायकनुन्नानां हतानां निशितैः शरैः ॥ ११६ ॥
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।तमेवाभिमुखा यान्ति पतंगा इव पावकम् ॥ ११७ ॥
तं दहन्तमनीकानि तत्र तत्र महारथम् ।क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥ ११८ ॥
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः ।तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः ।अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ॥ ११९ ॥
तापयामास तान्बाणैः सूतपुत्रो महारथः ।मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः ॥ १२० ॥
« »