Click on words to see what they mean.

धृतराष्ट्र उवाच ।प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः ।न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम् ॥ १ ॥
तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् ।शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥ २ ॥
संजय उवाच ।द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् ।समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ॥ ३ ॥
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते ।वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ॥ ४ ॥
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः ।कर्णस्यानीकमवधीत्परिभूत इवान्तकः ॥ ५ ॥
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् ।कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥ ६ ॥
व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् ।सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥ ७ ॥
द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् ।सपादरक्षानवधीद्वज्रेणारीनिवारिहा ॥ ८ ॥
सशक्तिप्रासतूणीरानश्वारोहान्हयानपि ।पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ॥ ९ ॥
दाक्षिणात्यांश्च भोजांश्च क्रूरान्संग्रामकर्कशान् ।विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥ १० ॥
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे ।दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात् ॥ ११ ॥
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् ।प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ॥ १२ ॥
राजन्कमलपत्राक्ष प्रधानायुधवाहन ।वज्रसंहननप्रख्य प्रधानबलपौरुष ॥ १३ ॥
मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः ।दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥ १४ ॥
शरवर्षैर्महावेगैरमित्रानभिवर्षतः ।मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥ १५ ॥
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् ।मृगसंघानिवारण्ये विभीर्भीमबलो हरिः ॥ १६ ॥
महता रथघोषेण दिवं भूमिं च नादयन् ।वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ॥ १७ ॥
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् ।मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ॥ १८ ॥
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः ।कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥ १९ ॥
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः ।स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ॥ २० ॥
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः ।गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ॥ २१ ॥
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः ।चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ॥ २२ ॥
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः ।धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ॥ २३ ॥
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा ।ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ।इषुसंबाधमाकाशमकरोद्दिश एव च ॥ २४ ॥
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः ।जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ॥ २५ ॥
प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः ।चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ॥ २६ ॥
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः ।प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥ २७ ॥
अष्टावष्टगवान्यूहुः शकटानि यदायुधम् ।अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥ २८ ॥
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् ।ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन् ॥ २९ ॥
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् ।आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ॥ ३० ॥
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् ।वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ॥ ३१ ॥
तस्य नानदतः केतुं चन्दनागुरुभूषितम् ।मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥ ३२ ॥
सूतमेकेषुणा हत्वा महाजलदनिस्वनम् ।धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ॥ ३३ ॥
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च ।प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ॥ ३४ ॥
हतेश्वरो दन्तिवरः सुकल्पितस्त्वराभिसृष्टः प्रतिशर्मगो बली ।तमध्यतिष्ठन्मलयेश्वरो महान्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ॥ ३५ ॥
स तोमरं भास्कररश्मिसंनिभं बलास्त्रसर्गोत्तमयत्नमन्युभिः ।ससर्ज शीघ्रं प्रतिपीडयन्गजं गुरोः सुतायाद्रिपतीश्वरो नदन् ॥ ३६ ॥
मणिप्रतानोत्तमवज्रहाटकैरलंकृतं चांशुकमाल्यमौक्तिकैः ।हतोऽस्यसावित्यसकृन्मुदा नदन्पराभिनद्द्रौणिवराङ्गभूषणम् ॥ ३७ ॥
तदर्कचन्द्रग्रहपावकत्विषं भृशाभिघातात्पतितं विचूर्णितम् ।महेन्द्रवज्राभिहतं महावनं यथाद्रिशृङ्गं धरणीतले तथा ॥ ३८ ॥
ततः प्रजज्वाल परेण मन्युना पदाहतो नागपतिर्यथा तथा ।समादधे चान्तकदण्डसंनिभानिषूनमित्रान्तकरांश्चतुर्दश ॥ ३९ ॥
द्विपस्य पादाग्रकरान्स पञ्चभिर्नृपस्य बाहू च शिरोऽथ च त्रिभिः ।जघान षड्भिः षडृतूत्तमत्विषः स पाण्ड्यराजानुचरान्महारथान् ॥ ४० ॥
सुदीर्घवृत्तौ वरचन्दनोक्षितौ सुवर्णमुक्तामणिवज्रभूषितौ ।भुजौ धरायां पतितौ नृपस्य तौ विवेष्टतुस्तार्क्ष्यहताविवोरगौ ॥ ४१ ॥
शिरश्च तत्पूर्णशशिप्रभाननं सरोषताम्रायतनेत्रमुन्नसम् ।क्षितौ विबभ्राज पतत्सकुण्डलं विशाखयोर्मध्यगतः शशी यथा ॥ ४२ ॥
समाप्तविद्यं तु गुरोः सुतं नृपः समाप्तकर्माणमुपेत्य ते सुतः ।सुहृद्वृतोऽत्यर्थमपूजयन्मुदा जिते बलौ विष्णुमिवामरेश्वरः ॥ ४३ ॥
« »