Click on words to see what they mean.

संजय उवाच ।श्रुतकर्मा महाराज चित्रसेनं महीपतिम् ।आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥ १ ॥
अभिसारस्तु तं राजा नवभिर्निशितैः शरैः ।श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥ २ ॥
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे ।नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ॥ ३ ॥
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः ।नवत्या जगतीपालं छादयामास पत्रिभिः ॥ ४ ॥
प्रतिलभ्य ततः संज्ञां चित्रसेनो महारथः ।धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ ५ ॥
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् ।चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ॥ ६ ॥
स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा ।युवेव समशोभत्स गोष्ठीमध्ये स्वलंकृतः ॥ ७ ॥
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे ।बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ ८ ॥
श्रुतकर्मापि समरे नाराचेन समर्दितः ।सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ॥ ९ ॥
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः ।रराज समरे राजन्सपुष्प इव किंशुकः ॥ १० ॥
श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः ।शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ॥ ११ ॥
अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः ।विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ॥ १२ ॥
ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः ।जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥ १३ ॥
तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः ।यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ॥ १४ ॥
राजानं निहतं दृष्ट्वा अभिसारं च मारिष ।अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥ १५ ॥
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः ।अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ।द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ॥ १६ ॥
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः ।सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ॥ १७ ॥
तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् ।स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥ १८ ॥
प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः ।पञ्चभिर्निशितैर्बाणैरथैनं संप्रजघ्निवान् ॥ १९ ॥
ततः शक्तिं महाराज हेमदण्डां दुरासदाम् ।प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ॥ २० ॥
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् ।द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥ २१ ॥
सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः ।युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ॥ २२ ॥
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् ।प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥ २३ ॥
सा जघान हयांस्तस्य सारथिं च महारणे ।रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥ २४ ॥
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत ।शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलंकृताम् ॥ २५ ॥
तामापतन्तीं जग्राह चित्रो राजन्महामनाः ।ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत ॥ २६ ॥
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा ।निर्भिद्य दक्षिणं बाहुं निपपात महीतले ।पतिताभासयच्चैव तं देशमशनिर्यथा ॥ २७ ॥
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् ।प्रेषयामास संक्रुद्धश्चित्रस्य वधकाम्यया ॥ २८ ॥
स तस्य देवावरणं भित्त्वा हृदयमेव च ।जगाम धरणीं तूर्णं महोरग इवाशयम् ॥ २९ ॥
स पपात तदा राजंस्तोमरेण समाहतः ।प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ॥ ३० ॥
चित्रं संप्रेक्ष्य निहतं तावका रणशोभिनः ।अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥ ३१ ॥
सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः ।त एनं छादयामासुः सूर्यमभ्रगणा इव ॥ ३२ ॥
तानपास्य महाबाहुः शरजालेन संयुगे ।व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥ ३३ ॥
ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप ।विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥ ३४ ॥
विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः ।द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥ ३५ ॥
ततः समागमो घोरो बभूव सहसा तयोः ।यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ॥ ३६ ॥
« »