Click on words to see what they mean.

संजय उवाच ।भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा ।त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् ॥ १ ॥
अथैनं पुनराजघ्ने नवत्या निशितैः शरैः ।सर्वमर्माणि संप्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥ २ ॥
भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः ।रराज समरे राजन्रश्मिवानिव भास्करः ॥ ३ ॥
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः ।द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥ ४ ॥
शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् ।ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव ॥ ५ ॥
ललाटस्थं ततो बाणं धारयामास पाण्डवः ।यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ॥ ६ ॥
ततो द्रौणिं रणे भीमो यतमानं पराक्रमी ।त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥ ७ ॥
ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत ।प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥ ८ ॥
ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः ।न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥ ९ ॥
तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः ।नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ॥ १० ॥
तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ ।रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ ॥ ११ ॥
आदित्याविव संदीप्तौ लोकक्षयकरावुभौ ।स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥ १२ ॥
कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे ।कृतप्रतिकृते यत्नं चक्राते तावभीतवत् ॥ १३ ॥
व्याघ्राविव च संग्रामे चेरतुस्तौ महारथौ ।शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ ॥ १४ ॥
अभूतां तावदृश्यौ च शरजालैः समन्ततः ।मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ॥ १५ ॥
प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ ।विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि ॥ १६ ॥
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् ।किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् ॥ १७ ॥
न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् ।प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः ॥ १८ ॥
मण्डलानां विभागेषु गतप्रत्यागतेषु च ।बभूव तुमुलं युद्धं तयोस्तत्र महामृधे ॥ १९ ॥
चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ २० ॥
अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ ।ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ॥ २१ ॥
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः ।तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः ॥ २२ ॥
ततो घोरं महाराज अस्त्रयुद्धमवर्तत ।ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् ॥ २३ ॥
ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत ।द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः ॥ २४ ॥
बाणसंघावृतं घोरमाकाशं समपद्यत ।उक्लापातकृतं यद्वत्प्रजानां संक्षये नृप ॥ २५ ॥
बाणाभिघातात्संजज्ञे तत्र भारत पावकः ।सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् ॥ २६ ॥
तत्र सिद्धा महाराज संपतन्तोऽब्रुवन्वचः ।अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् ॥ २७ ॥
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् ।नैतादृशं पुनर्युद्धं न भूतं न भविष्यति ॥ २८ ॥
अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ ।अहो भीमे बलं भीममेतयोश्च कृतास्त्रता ॥ २९ ॥
अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः ।स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥ ३० ॥
रुद्रौ द्वाविव संभूतौ यथा द्वाविव भास्करौ ।यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे ॥ ३१ ॥
श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः ।सिंहनादश्च संजज्ञे समेतानां दिवौकसाम् ।अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे ॥ ३२ ॥
तौ शूरौ समरे राजन्परस्परकृतागसौ ।परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥ ३३ ॥
क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ ।क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ ॥ ३४ ॥
अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ ।शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ॥ ३५ ॥
तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ ।अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ॥ ३६ ॥
ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे ।उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ ॥ ३७ ॥
तौ सायकौ महाराज द्योतमानौ चमूमुखे ।आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ ॥ ३८ ॥
तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ ।निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा ॥ ३९ ॥
ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् ।अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः ॥ ४० ॥
तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः ।अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ॥ ४१ ॥
« »