Click on words to see what they mean.

संजय उवाच ।ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् ।जघान समरे शूरः शरैः संनतपर्वभिः ॥ १ ॥
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् ।कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ॥ २ ॥
कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् ।नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥ ३ ॥
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः ।नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ॥ ४ ॥
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष ।नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥ ५ ॥
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् ।विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥ ६ ॥
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः ।प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ॥ ७ ॥
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् ।संशप्तकगणान्क्रुद्धो अभ्यधावद्धनंजयः ॥ ८ ॥
धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये ।शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥ ९ ॥
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव ।दुःशासनं महाराज सहदेवः प्रतापवान् ॥ १० ॥
केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता ।सात्यकिः केकयौ चैव छादयामास भारत ॥ ११ ॥
तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् ।विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ॥ १२ ॥
शरसंभिन्नवर्माणौ तावुभौ भ्रातरौ रणे ।सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥ १३ ॥
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् ।छादयञ्शरवर्षेण वारयामास भारत ॥ १४ ॥
वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः ।शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥ १५ ॥
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे ।अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ॥ १६ ॥
अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् ।सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥ १७ ॥
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः ।द्योतयन्तो दिशः सर्वाः संपेतुः स्वर्णभूषणाः ॥ १८ ॥
बाणान्धकारमभवत्तयो राजन्महाहवे ।अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥ १९ ॥
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः ।धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ।क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ॥ २० ॥
तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् ।शम्बरस्य शिरो यद्वन्निहतस्य महारणे ।शोषयन्केकयान्सर्वाञ्जगामाशु वसुंधराम् ॥ २१ ॥
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः ।सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ॥ २२ ॥
स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ॥ २३ ॥
स सात्यकिं पुनः क्रुद्धः केकयानां महारथः ।शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ॥ २४ ॥
स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः ।रराज समरे राजन्सपत्र इव किंशुकः ॥ २५ ॥
सात्यकिः समरे विद्धः केकयेन महात्मना ।केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥ २६ ॥
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ ।व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ।यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥ २७ ॥
मण्डलानि ततस्तौ च विचरन्तौ महारणे ।अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ॥ २८ ॥
केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः ।सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ॥ २९ ॥
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् ।चचार मण्डलान्येव गतप्रत्यागतानि च ॥ ३० ॥
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् ।अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ॥ ३१ ॥
सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे ।निपपात महेष्वासो वज्रनुन्न इवाचलः ॥ ३२ ॥
तं निहत्य रणे शूरः शैनेयो रथसत्तमः ।युधामन्यो रथं तूर्णमारुरोह परंतपः ॥ ३३ ॥
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥ ३४ ॥
सा वध्यमाना समरे केकयस्य महाचमूः ।तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ॥ ३५ ॥
« »