Click on words to see what they mean.

संजय उवाच ।ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।त्वरमाणा महाराज युयुधानमयोधयन् ॥ १ ॥
तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः ।दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥ २ ॥
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ॥ ३ ॥
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥ ४ ॥
दुर्योधनश्च महता शरवर्षेण माधवम् ।अपीडयद्रणे राजञ्शूराश्चान्ये महारथाः ॥ ५ ॥
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।तान्प्रत्यविध्यच्छैनेयः पृथक्पृथगजिह्मगैः ॥ ६ ॥
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिस्तथा ।विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥ ७ ॥
दुर्मर्षणं द्वादशभिश्चतुर्भिश्च विविंशतिम् ।सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥ ८ ॥
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः ।अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥ ९ ॥
राजानं सर्वलोकस्य सर्वशस्त्रभृतां वरम् ।शरैरभ्याहनद्गाढं ततो युद्धमभूत्तयोः ॥ १० ॥
विमुञ्चन्तौ शरांस्तीक्ष्णान्संदधानौ च सायकान् ।अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥ ११ ॥
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥ १२ ॥
सात्वतेन च बाणौघैर्निर्विद्धस्तनयस्तव ।शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ १३ ॥
माधवस्तु रणे राजन्कुरुराजस्य धन्विनः ।धनुश्चिच्छेद सहसा क्षुरप्रेण हसन्निव ।अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ॥ १४ ॥
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा ।नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥ १५ ॥
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥ १६ ॥
सोऽतिविद्धो बलवता पुत्रेण तव धन्विना ।अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥ १७ ॥
पीडितं नृपतिं दृष्ट्वा तव पुत्रा महारथाः ।सात्वतं शरवर्षेण छादयामासुरञ्जसा ॥ १८ ॥
स छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः ।एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ १९ ॥
दुर्योधनं च त्वरितो विव्याधाष्टभिराशुगैः ।प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ॥ २० ॥
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ।हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।सारथिं पातयामास क्षुरप्रेण महायशाः ॥ २१ ॥
एतस्मिन्नन्तरे चैव कुरुराजं महारथम् ।अवाकिरच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥ २२ ॥
स वध्यमानः समरे शैनेयस्य शरोत्तमैः ।प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव ।आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥ २३ ॥
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ।ग्रस्यमानं सात्यकिना खे सोममिव राहुणा ॥ २४ ॥
तं तु शब्दं महच्छ्रुत्वा कृतवर्मा महारथः ।अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥ २५ ॥
विधुन्वानो धनुःश्रेष्ठं चोदयंश्चैव वाजिनः ।भर्त्सयन्सारथिं चोग्रं याहि याहीति सत्वरः ॥ २६ ॥
तमापतन्तं संप्रेक्ष्य व्यादितास्यमिवान्तकम् ।युयुधानो महाराज यन्तारमिदमब्रवीत् ॥ २७ ॥
कृतवर्मा रथेनैष द्रुतमापतते शरी ।प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥ २८ ॥
ततः प्रजविताश्वेन विधिवत्कल्पितेन च ।आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥ २९ ॥
ततः परमसंक्रुद्धौ ज्वलन्ताविव पावकौ ।समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥ ३० ॥
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ।निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य सप्तभिः ॥ ३१ ॥
चतुरश्च हयोदारांश्चतुर्भिः परमेषुभिः ।अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य ह ॥ ३२ ॥
रुक्मध्वजो रुक्मपृष्ठं महद्विस्फार्य कार्मुकम् ।रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खानवाकिरत् ॥ ३३ ॥
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे ।प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनंजयम् ॥ ३४ ॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।समकम्पत दुर्धर्षः क्षितिकम्पे यथाचलः ॥ ३५ ॥
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं शरैः ।विव्याध निशितैस्तूर्णं सात्यकिः कृतवर्मणः ॥ ३६ ॥
सुवर्णपुङ्खं विशिखं समाधाय स सात्यकिः ।व्यसृजत्तं महाज्वालं संक्रुद्धमिव पन्नगम् ॥ ३७ ॥
सोऽविशत्कृतवर्माणं यमदण्डोपमः शरः ।जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत् ।अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥ ३८ ॥
संजातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।प्रचलन्धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमे ॥ ३९ ॥
स सिंहदंष्ट्रो जानुभ्यामापन्नोऽमितविक्रमः ।शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥ ४० ॥
सहस्रबाहोः सदृशमक्षोभ्यमिव सागरम् ।निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥ ४१ ॥
खड्गशक्तिधनुःकीर्णां गजाश्वरथसंकुलाम् ।प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥ ४२ ॥
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुंगवः ।अभ्यगाद्वाहिनीं भित्त्वा वृत्रहेवासुरीं चमूम् ॥ ४३ ॥
समाश्वास्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।तस्थौ तत्रैव बलवान्वारयन्युधि पाण्डवान् ॥ ४४ ॥
« »