Click on words to see what they mean.

संजय उवाच ।काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः ।भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ॥ १ ॥
स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् ।पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥ २ ॥
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः ।त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥ ३ ॥
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः ।व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥ ४ ॥
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् ।भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥ ५ ॥
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् ।द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥ ६ ॥
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते ।प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम् ॥ ७ ॥
पुनः पञ्चाशतेषूणां शतेन च समार्पयत् ।लघुतां युयुधानस्य लाघवेन विशेषयन् ॥ ८ ॥
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः ।तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ॥ ९ ॥
तथैव युयुधानेन सृष्टाः शतसहस्रशः ।अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥ १० ॥
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष ।विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥ ११ ॥
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः ।आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ।सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥ १२ ॥
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः ।सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ।ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ॥ १३ ॥
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा ।धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥ १४ ॥
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः ।गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥ १५ ॥
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् ।न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥ १६ ॥
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः ।विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥ १७ ॥
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत ।तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥ १८ ॥
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् ।तरसा प्रेषयामास माधवस्य रथं प्रति ॥ १९ ॥
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा ।भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥ २० ॥
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा ।दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥ २१ ॥
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः ।अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥ २२ ॥
मुमोह सारथिस्तस्य रथशक्त्या समाहतः ।स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥ २३ ॥
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् ।अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥ २४ ॥
ततः शरशतेनैव युयुधानो महारथः ।अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते ॥ २५ ॥
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत ।ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ २६ ॥
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् ।सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥ २७ ॥
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि ।अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ॥ २८ ॥
स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः ।चकार राजतो राजन्भ्राजमान इवांशुमान् ॥ २९ ॥
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत ।इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥ ३० ॥
ते सात्यकिमपास्याशु राजन्युधि महारथाः ।यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥ ३१ ॥
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् ।प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥ ३२ ॥
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः ।वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ॥ ३३ ॥
पाण्डुपाञ्चालसंभग्नं व्यूहमालोक्य वीर्यवान् ।शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ॥ ३४ ॥
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव ।तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ॥ ३५ ॥
« »