Click on words to see what they mean.

धृतराष्ट्र उवाच ।भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् ।संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ १ ॥
संजय उवाच ।शृणु राजन्महाप्राज्ञ संग्रामं लोमहर्षणम् ।द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥ २ ॥
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष ।अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥ ३ ॥
तमापतन्तं सहसा भारद्वाजं महारथम् ।सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ४ ॥
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः ।अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ॥ ५ ॥
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः ।अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ॥ ६ ॥
दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः ।द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ॥ ७ ॥
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् ।सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥ ८ ॥
ततः क्रुद्धो महेष्वासो भूय एव महाबलः ।सात्वतं पीडयामास शतेन नतपर्वणा ॥ ९ ॥
स वध्यमानः समरे भारद्वाजेन सात्यकिः ।नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते ॥ १० ॥
विषण्णवदनश्चापि युयुधानोऽभवन्नृप ।भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥ ११ ॥
तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते ।प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥ १२ ॥
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् ।युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ॥ १३ ॥
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् ।ग्रस्यते युधि वीरेण भानुमानिव राहुणा ।अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥ १४ ॥
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप ।अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ।न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ॥ १५ ॥
असौ द्रोणो महेष्वासो युयुधानेन संयुगे ।क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥ १६ ॥
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः ।त्वयैव सहिता यत्ता युयुधानरथं प्रति ॥ १७ ॥
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः ।सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥ १८ ॥
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः ।अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥ १९ ॥
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् ।पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥ २० ॥
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् ।अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥ २१ ॥
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् ।अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥ २२ ॥
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः ।आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ॥ २३ ॥
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् ।मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥ २४ ॥
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः ।अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥ २५ ॥
वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा ।त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ २६ ॥
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः ।गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥ २७ ॥
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः ।महारथसमाख्याता धृष्टद्युम्नस्य संमताः ॥ २८ ॥
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च ।द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥ २९ ॥
केकयानां शतं हत्वा विद्राव्य च समन्ततः ।द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥ ३० ॥
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि ।द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥ ३१ ॥
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः ।वनौकसामिवारण्ये दह्यतां धूमकेतुना ॥ ३२ ॥
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप ।एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥ ३३ ॥
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे ।न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥ ३४ ॥
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये ।अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ॥ ३५ ॥
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् ।युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ।नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ॥ ३६ ॥
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ।कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ॥ ३७ ॥
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् ।कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ॥ ३८ ॥
एवं संचिन्तयित्वा तु व्याकुलेनान्तरात्मना ।अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥ ३९ ॥
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः ।कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम् ॥ ४० ॥
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः ।सांपराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥ ४१ ॥
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुंगव ।त्वत्तः सुहृत्तमं कंचिन्नाभिजानामि सात्यके ॥ ४२ ॥
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः ।स कार्ये सांपराये तु नियोज्य इति मे मतिः ॥ ४३ ॥
यथा च केशवो नित्यं पाण्डवानां परायणम् ।तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥ ४४ ॥
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि ।अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥ ४५ ॥
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे ।कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥ ४६ ॥
त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः ।लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥ ४७ ॥
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् ।पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ॥ ४८ ॥
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः ।दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥ ४९ ॥
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः ।पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥ ५० ॥
एक एव सदा कृष्णो मित्राणामभयंकरः ।रणे संत्यजति प्राणान्द्वितीयस्त्वं च सात्यके ॥ ५१ ॥
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः ।शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥ ५२ ॥
ईदृशे तु परामर्दे वर्तमानस्य माधव ।त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥ ५३ ॥
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः ।मम संजनयन्हर्षं पुनः पुनरकीर्तयत् ॥ ५४ ॥
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः ।प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥ ५५ ॥
महास्कन्धो महोरस्को महाबाहुर्महाधनुः ।महाबलो महावीर्यः स महात्मा महारथः ॥ ५६ ॥
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे ।युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥ ५७ ॥
अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः ।रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥ ५८ ॥
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः ।सहायार्थं महाराज संग्रामोत्तममूर्धनि ॥ ५९ ॥
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् ।साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ॥ ६० ॥
इति द्वैतवने तात मामुवाच धनंजयः ।परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥ ६१ ॥
तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि ।धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥ ६२ ॥
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति ।तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥ ६३ ॥
न तत्सौहृदमन्येषु मया शैनेय लक्षितम् ।यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥ ६४ ॥
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च ।सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥ ६५ ॥
सत्यस्य च महाबाहो अनुकम्पार्थमेव च ।अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ॥ ६६ ॥
सुयोधनो हि सहसा गतो द्रोणेन दंशितः ।पूर्वमेव तु यातास्ते कौरवाणां महारथाः ॥ ६७ ॥
सुमहान्निनदश्चैव श्रूयते विजयं प्रति ।स शैनेय जवेनात्र गन्तुमर्हसि माधव ॥ ६८ ॥
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः ।द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ॥ ६९ ॥
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे ।महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ॥ ७० ॥
महामारुतवेगेन समुद्रमिव पर्वसु ।धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ॥ ७१ ॥
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह ।सैन्यं रजःसमुद्धूतमेतत्संपरिवर्तते ॥ ७२ ॥
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः ।अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ॥ ७३ ॥
नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः ।एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः ॥ ७४ ॥
शरशक्तिध्वजवनं हयनागसमाकुलम् ।पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥ ७५ ॥
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् ।सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥ ७६ ॥
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः ।सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥ ७७ ॥
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः ।बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥ ७८ ॥
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् ।तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ।सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ॥ ७९ ॥
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ।लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ॥ ८० ॥
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ।तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ।कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥ ८१ ॥
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् ।अविषह्यां महाबाहुः सुरैरपि महामृधे ॥ ८२ ॥
न च मे वर्तते बुद्धिरद्य युद्धे कथंचन ।द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ।प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ॥ ८३ ॥
युगपच्च समेतानां कार्याणां त्वं विचक्षणः ।महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ॥ ८४ ॥
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा ।अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ॥ ८५ ॥
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् ।स हि शक्तो रणे तात त्रीँल्लोकानपि संगतान् ॥ ८६ ॥
विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते ।किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥ ८७ ॥
अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि ।प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥ ८८ ॥
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ।तादृशस्येदृशे काले मादृशेनाभिचोदितः ॥ ८९ ॥
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ ।प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥ ९० ॥
अस्त्रे नारायणसमः संकर्षणसमो बले ।वीरतायां नरव्याघ्र धनंजयसमो ह्यसि ॥ ९१ ॥
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् ।त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥ ९२ ॥
नासाध्यं विद्यते लोके सात्यकेरिति माधव ।तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥ ९३ ॥
संभावना हि लोकस्य तव पार्थस्य चोभयोः ।नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि ॥ ९४ ॥
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् ।न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥ ९५ ॥
अयुद्धमनवस्थानं संग्रामे च पलायनम् ।भीरूणामसतां मार्गो नैष दाशार्हसेवितः ॥ ९६ ॥
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुंगव ।वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥ ९७ ॥
कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् ।मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥ ९८ ॥
वासुदेवमतं चैतन्मम चैवार्जुनस्य च ।सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः ॥ ९९ ॥
एतद्वचनमाज्ञाय मम सत्यपराक्रम ।प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥ १०० ॥
प्रविश्य च यथान्यायं संगम्य च महारथैः ।यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥ १०१ ॥
« »