Click on words to see what they mean.

संजय उवाच ।प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च ।कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ॥ १ ॥
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः ।सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ॥ २ ॥
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत ।न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ॥ ३ ॥
एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् ।वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ॥ ४ ॥
न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन ।त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ॥ ५ ॥
लोकत्रयं योधयेयं सदेवासुरमानुषम् ।त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ॥ ६ ॥
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः ।विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ॥ ७ ॥
कुशल्यहं कुशलिनं समासाद्य धनंजयम् ।हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ॥ ८ ॥
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप ।वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ॥ ९ ॥
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः ।मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ १० ॥
अद्य माधव राजानमप्रमत्तोऽनुपालय ।आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ॥ ११ ॥
त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे ।नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ॥ १२ ॥
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् ।प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥ १३ ॥
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति ।शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ॥ १४ ॥
एवं त्वयि समाधाय धर्मराजं नरोत्तमम् ।अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ॥ १५ ॥
जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव ।धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ॥ १६ ॥
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव ।सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥ १७ ॥
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि ।अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ॥ १८ ॥
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति ।यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥ १९ ॥
स त्वमद्य महाबाहो प्रियार्थं मम माधव ।जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥ २० ॥
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना ।भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो ॥ २१ ॥
तस्यापि च महाबाहो नित्यं पश्यति संयुगे ।नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ।मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ॥ २२ ॥
सोऽहं संभावनां चैतामाचार्यवचनं च तत् ।पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ॥ २३ ॥
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः ।उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ॥ २४ ॥
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः ।तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ॥ २५ ॥
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ॥ २६ ॥
मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम् ।न स जातु महाबाहुर्भारमुद्यम्य सीदति ॥ २७ ॥
ये च सौवीरका योधास्तथा सैन्धवपौरवाः ।उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ॥ २८ ॥
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः ।एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ॥ २९ ॥
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा ।सराक्षसगणा राजन्सकिंनरमहोरगा ॥ ३० ॥
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे ।एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये ॥ ३१ ॥
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ ।न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते ॥ ३२ ॥
दैवं कृतास्त्रतां योगममर्षमपि चाहवे ।कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ॥ ३३ ॥
मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति ।द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय ॥ ३४ ॥
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति ।प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ॥ ३५ ॥
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि ।यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ॥ ३६ ॥
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे ।क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ॥ ३७ ॥
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर ।दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ॥ ३८ ॥
युधिष्ठिर उवाच ।एवमेतन्महाबाहो यथा वदसि माधव ।न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ॥ ३९ ॥
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति ।गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः ॥ ४० ॥
आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति ।विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये ॥ ४१ ॥
स त्वमातिष्ठ यानाय यत्र यातो धनंजयः ।ममापि रक्षणं भीमः करिष्यति महाबलः ॥ ४२ ॥
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः ।द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ॥ ४३ ॥
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः ।विराटो द्रुपदश्चैव शिखण्डी च महारथः ॥ ४४ ॥
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष ।नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ।एते समाहितास्तात रक्षिष्यन्ति न संशयः ॥ ४५ ॥
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे ।समासादयितुं शक्तो न च मां धर्षयिष्यति ॥ ४६ ॥
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः ।वारयिष्यति विक्रम्य वेलेव मकरालयम् ॥ ४७ ॥
यत्र स्थास्यति संग्रामे पार्षतः परवीरहा ।न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन ॥ ४८ ॥
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् ।कवची स शरी खड्गी धन्वी च वरभूषणः ॥ ४९ ॥
विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि संभ्रमम् ।धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति ॥ ५० ॥
« »