Click on words to see what they mean.

संजय उवाच ।अलम्बुसं तथा युद्धे विचरन्तमभीतवत् ।हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ॥ १ ॥
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः ।कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥ २ ॥
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् ।घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ।अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ॥ ३ ॥
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् ।विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ॥ ४ ॥
तथा तौ भृशसंक्रुद्धौ राक्षसेन्द्रौ महाबलौ ।निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥ ५ ॥
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् ।मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ॥ ६ ॥
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप ।तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥ ७ ॥
तं तथा युध्यमानं तु मायायुद्धविशारदम् ।अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ॥ ८ ॥
त एनं भृशसंक्रुद्धाः सर्वतः प्रवरा रथैः ।अभ्यद्रवन्त संक्रुद्धा भीमसेनादयो नृप ॥ ९ ॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥ १० ॥
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ।तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥ ११ ॥
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् ।मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ।युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ १२ ॥
नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष ।पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥ १३ ॥
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः ।युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ।नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥ १४ ॥
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ।पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥ १५ ॥
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः ।प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥ १६ ॥
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ।हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥ १७ ॥
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ।व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ॥ १८ ॥
ते शरा नतपर्वाणो विविशू राक्षसं तदा ।रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ॥ १९ ॥
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् ।प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥ २० ॥
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः ।दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ॥ २१ ॥
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः ।निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥ २२ ॥
बललाघवसंपन्नः संपन्नो विक्रमेण च ।भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ॥ २३ ॥
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः ।घटोत्कचेन वीरेण हतः सालकटङ्कटः ॥ २४ ॥
ततः सुमनसः पार्था हते तस्मिन्निशाचरे ।चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥ २५ ॥
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ।अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ।हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ॥ २६ ॥
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः ।यदृच्छया निपतितं भूमावङ्गारकं यथा ॥ २७ ॥
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् ।मुमोच बलवन्नादं बलं हत्वेव वासवः ॥ २८ ॥
स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते ।रिपुं निहत्याभिननन्द वै तदा अलम्बुसं पक्वमलम्बुसं यथा ॥ २९ ॥
ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् ।निशम्य तं प्रत्यनदंस्तु कौरवास्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ॥ ३० ॥
« »