Click on words to see what they mean.

संजय उवाच ।द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः ।एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ १ ॥
ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥ २ ॥
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् ।द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥ ३ ॥
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥ ४ ॥
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् ।एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥ ५ ॥
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥ ६ ॥
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ ७ ॥
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ ८ ॥
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् ।नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥ ९ ॥
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥ १० ॥
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् ।भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥ ११ ॥
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥ १२ ॥
अलम्बुसस्तु समरे भीमसेनं महाबलम् ।योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥ १३ ॥
संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ ।विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥ १४ ॥
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः ।विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥ १५ ॥
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् ।अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥ १६ ॥
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ।पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥ १७ ॥
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः ।निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥ १८ ॥
प्रतिलभ्य ततः संज्ञां मारुतिः क्रोधमूर्छितः ।विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ।अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥ १९ ॥
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥ २० ॥
स वध्यमानः समरे भीमचापच्युतैः शरैः ।स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥ २१ ॥
घोरं रूपमथो कृत्वा भीमसेनमभाषत ।तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥ २२ ॥
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली ।परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥ २३ ॥
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा ।महाता शरवर्षेण भृशं तं समवाकिरत् ॥ २४ ॥
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।आकाशं पूरयामास शरैः संनतपर्वभिः ॥ २५ ॥
स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥ २६ ॥
उच्चावचानि रूपाणि चकार सुबहूनि च ।उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥ २७ ॥
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः ।हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥ २८ ॥
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् ॥ २९ ॥
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥ ३० ॥
तं तथा समरे राजन्विचरन्तमभीतवत् ।पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥ ३१ ॥
तावकानां तु सैन्यानां प्रहर्षः समजायत ।वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥ ३२ ॥
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ ३३ ॥
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥ ३४ ॥
ततः शरसहस्राणि प्रादुरासन्समन्ततः ।तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥ ३५ ॥
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे ।राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥ ३६ ॥
स वध्यमानो बहुधा भीमसेनेन राक्षसः ।संत्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥ ३७ ॥
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥ ३८ ॥
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥ ३९ ॥
« »