Click on words to see what they mean.

धृतराष्ट्र उवाच ।किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः ।तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥ १ ॥
रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः ।प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥ २ ॥
कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् ।किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः ॥ ३ ॥
क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् ।दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् ॥ ४ ॥
पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् ।कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् ॥ ५ ॥
व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः ।यद्द्रोणो निहतः शूरः पार्षतेन महात्मना ॥ ६ ॥
अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् ।तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् ॥ ७ ॥
श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् ।जातरूपपरिष्कारं नाद्य शोकमपानुदे ॥ ८ ॥
न नूनं परदुःखेन कश्चिन्म्रियति संजय ।यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये ॥ ९ ॥
अश्मसारमयं नूनं हृदयं सुदृढं मम ।यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥ १० ॥
ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥ ११ ॥
शोषणं सागरस्येव मेरोरिव विसर्पणम् ।पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥ १२ ॥
दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता ।योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः ॥ १३ ॥
मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥ १४ ॥
ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः ।रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥ १५ ॥
बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः ।दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः ॥ १६ ॥
करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् ।ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥ १७ ॥
आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥ १८ ॥
ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः ।कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥ १९ ॥
जातरूपपरिष्कारमास्थाय रथमुत्तमम् ।भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि ॥ २० ॥
विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः ।स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि ॥ २१ ॥
दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥ २२ ॥
ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः ।दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥ २३ ॥
उताहो सर्वसैन्येन धर्मराजः सहानुजः ।पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् ॥ २४ ॥
नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥ २५ ॥
न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः ।धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना ॥ २६ ॥
तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः ।केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः ॥ २७ ॥
व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा ।कर्मण्यसुकरे सक्तं जघानेति मतिर्मम ॥ २८ ॥
योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् ।ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः ।स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् ॥ २९ ॥
अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया ।अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् ॥ ३० ॥
यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः ।स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम् ॥ ३१ ॥
दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः ।स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः ॥ ३२ ॥
क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः ।न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति ॥ ३३ ॥
यं द्वौ न जहतः शब्दौ जीवमानं कदाचन ।ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् ॥ ३४ ॥
नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् ।कथं संजय दुर्धर्षमनाधृष्ययशोबलम् ॥ ३५ ॥
केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः ।पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे ॥ ३६ ॥
के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् ॥ ३७ ॥
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय ।पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥ ३८ ॥
मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् ।भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय ॥ ३९ ॥
« »