Click on words to see what they mean.

संजय उवाच ।तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् ।व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥ १ ॥
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनंजयौ ।अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥ २ ॥
तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः ।पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः ॥ ३ ॥
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः ।युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा ॥ ४ ॥
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः ।चेकितानश्च संक्रुद्धो युयुत्सुश्च महारथः ॥ ५ ॥
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः ।कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥ ६ ॥
संगृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे ।व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ॥ ७ ॥
स तीव्रं कोपमास्थाय रथे समरदुर्मदः ।व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः ॥ ८ ॥
रथानश्वान्नरान्नागानभिधावंस्ततस्ततः ।चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥ ९ ॥
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः ।आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः ॥ १० ॥
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् ।दृष्ट्वा संप्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥ ११ ॥
तेषां प्रद्रवतां भीमः पुनरावर्ततामपि ।वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥ १२ ॥
शूराणां हर्षजननो भीरूणां भयवर्धनः ।द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥ १३ ॥
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि ।अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् ॥ १४ ॥
स तथा तान्यनीकानि पाण्डवेयस्य धीमतः ।कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली ॥ १५ ॥
उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् ।कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः ॥ १६ ॥
तस्य हर्षप्रणादेन बाणवेगेन चाभिभो ।प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥ १७ ॥
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च ।धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥ १८ ॥
अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः ।व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु ॥ १९ ॥
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् ।द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह ॥ २० ॥
तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् ।द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् ॥ २१ ॥
तन्वता परमास्त्राणि शरान्सततमस्यता ।द्रोणेन विहितं दिक्षु बाणजालमदृश्यत ॥ २२ ॥
पदातिषु रथाश्वेषु वारणेषु च सर्वशः ।तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥ २३ ॥
स केकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमृद्य ।युधिष्ठिरानीकमदीनयोधी द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥ २४ ॥
तं भीमसेनश्च धनंजयश्च शिनेश्च नप्ता द्रुपदात्मजश्च ।शैब्यात्मजः काशिपतिः शिबिश्च हृष्टा नदन्तो व्यकिरञ्शरौघैः ॥ २५ ॥
तेषामथो द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः ।भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः ॥ २६ ॥
सा योधसंघैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च ।प्रच्छाद्यमाना पतितैर्बभूव समन्ततो द्यौरिव कालमेघैः ॥ २७ ॥
शैनेयभीमार्जुनवाहिनीपाञ्शैब्याभिमन्यू सह काशिराज्ञा ।अन्यांश्च वीरान्समरे प्रमृद्नाद्द्रोणः सुतानां तव भूतिकामः ॥ २८ ॥
एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा ।प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् ॥ २९ ॥
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः ।पाण्डवानां रणे योधान्पार्षतेन निपातितः ॥ ३० ॥
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् ।निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥ ३१ ॥
पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः ।हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥ ३२ ॥
ततो निनादो भूतानामाकाशे समजायत ।सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥ ३३ ॥
द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् ।अहो धिगिति भूतानां शब्दः समभवन्महान् ॥ ३४ ॥
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ।ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥ ३५ ॥
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे ।तेन नादेन महता समकम्पत मेदिनी ॥ ३६ ॥
« »