Click on words to see what they mean.

वैशंपायन उवाच ।एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् ।जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥ १ ॥
तं विसंज्ञं निपतितं सिषिचुः परिचारकाः ।जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना ॥ २ ॥
पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः ।परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥ ३ ॥
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् ।आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः ॥ ४ ॥
आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः ।निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥ ५ ॥
स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः ।पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥ ६ ॥
यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः ।आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् ॥ ७ ॥
प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् ।आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् ।वाशितासंगमे यद्वदजय्यं प्रतियूथपैः ॥ ८ ॥
अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः ।यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा ।कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसंगरः ॥ ९ ॥
चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् ।दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥ १० ॥
के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् ।समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥ ११ ॥
तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् ।तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥ १२ ॥
यदायाज्जलदप्रख्यो रथः परमवीर्यवान् ।पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् ॥ १३ ॥
ववर्ष शरवर्षाणि वर्षाणि मघवानिव ।इषुसंबाधमाकाशं कुर्वन्कपिवरध्वजः ।अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥ १४ ॥
चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः ।रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥ १५ ॥
रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः ।मर्मातिगो बाणधारस्तुमुलः शोणितोदकः ॥ १६ ॥
संप्लावयन्महीं सर्वां मानवैरास्तरंस्तदा ।गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः ॥ १७ ॥
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः ।गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥ १८ ॥
कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् ।यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् ॥ १९ ॥
कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनंजयः ।वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः ।को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति ॥ २० ॥
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् ।के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥ २१ ॥
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।अमानुषाणां जेतारं युद्धेष्वपि धनंजयम् ॥ २२ ॥
न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः ।गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् ॥ २३ ॥
विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः ।अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥ २४ ॥
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥ २५ ॥
आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् ।यदायान्नकुलो धीमान्के शूराः पर्यवारयन् ॥ २६ ॥
आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् ।शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि ॥ २७ ॥
आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् ।द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥ २८ ॥
यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् ।आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् ॥ २९ ॥
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् ।सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥ ३० ॥
बलिनं सत्यकर्माणमदीनमपराजितम् ।वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥ ३१ ॥
युक्तं धनंजयप्रेष्ये शूरमाचार्यकर्मणि ।पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥ ३२ ॥
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् ।रामेण सममस्त्रेषु यशसा विक्रमेण च ॥ ३३ ॥
सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् ।सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥ ३४ ॥
तमेवंगुणसंपन्नं दुर्वारमपि दैवतैः ।समासाद्य महेष्वासं के वीराः पर्यवारयन् ॥ ३५ ॥
पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् ।नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥ ३६ ॥
युक्तं धनंजयहिते ममानर्थाय चोत्तमम् ।यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥ ३७ ॥
महारथसमाख्यातं द्रोणायोद्यन्तमाहवे ।त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् ॥ ३८ ॥
एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः ।धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् ॥ ३९ ॥
योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् ।अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् ॥ ४० ॥
स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् ।शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥ ४१ ॥
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः ।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ ४२ ॥
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात् ।यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा ॥ ४३ ॥
वासुदेवसमं वीर्ये धनंजयसमं बले ।तेजसादित्यसदृशं बृहस्पतिसमं मतौ ॥ ४४ ॥
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् ।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ ४५ ॥
तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा ।यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् ॥ ४६ ॥
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः ।यद्द्रोणमाद्रवन्संख्ये के वीरास्तानवारयन् ॥ ४७ ॥
ये ते द्वादशवर्षाणि क्रीडामुत्सृज्य बालकाः ।अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥ ४८ ॥
क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः ।धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥ ४९ ॥
शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः ।चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥ ५० ॥
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि ।अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥ ५१ ॥
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः ॥ ५२ ॥
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥ ५३ ॥
यं योधयन्तो राजानो नाजयन्वारणावते ।षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् ॥ ५४ ॥
धनुष्मतां वरं शूरं सत्यसंधं महाबलम् ।द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् ॥ ५५ ॥
यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् ॥ ५६ ॥
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् ।युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥ ५७ ॥
निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः ।द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् ॥ ५८ ॥
उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् ।शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् ॥ ५९ ॥
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ।महता रथवंशेन मुख्यारिघ्नो महारथः ॥ ६० ॥
दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् ।निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥ ६१ ॥
पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् ।तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥ ६२ ॥
न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।इति संचुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥ ६३ ॥
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु ।जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति ॥ ६४ ॥
अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत ।गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥ ६५ ॥
तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् ॥ ६६ ॥
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥ ६७ ॥
सद्यो वृकोदराज्जातो महाबलपराक्रमः ।मायावी राक्षसो घोरो यस्मान्मम महद्भयम् ॥ ६८ ॥
पार्थानां जयकामं तं पुत्राणां मम कण्टकम् ।घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् ॥ ६९ ॥
एते चान्ये च बहवो येषामर्थाय संजय ।त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥ ७० ॥
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ।हितार्थी चापि पार्थानां कथं तेषां पराजयः ॥ ७१ ॥
लोकानां गुरुरत्यन्तं लोकनाथः सनातनः ।नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः ॥ ७२ ॥
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ७३ ॥
« »