Click on words to see what they mean.

वासुदेव उवाच ।सुयोधनमतिक्रान्तमेनं पश्य धनंजय ।आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥ १ ॥
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः ।दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥ २ ॥
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः ।कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥ ३ ॥
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ ।अत्र वो द्यूतमायातं विजयायेतराय वा ॥ ४ ॥
अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् ।एष मूलमनर्थानां पाण्डवानां महारथः ॥ ५ ॥
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः ।कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥ ६ ॥
दिष्ट्या त्विदानीं संप्राप्त एष ते बाणगोचरम् ।स यथा जीवितं जह्यात्तथा कुरु धनंजय ॥ ७ ॥
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् ।न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥ ८ ॥
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः ।नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥ ९ ॥
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् ।जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ॥ १० ॥
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ ।निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥ ११ ॥
बहूनि सुनृशंसानि कृतान्येतेन मानद ।युष्मासु पापमतिना अपापेष्वेव नित्यदा ॥ १२ ॥
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् ।आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥ १३ ॥
निकृत्या राज्यहरणं वनवासं च पाण्डव ।परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥ १४ ॥
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते ।प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥ १५ ॥
दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह ।दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ॥ १६ ॥
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् ।यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥ १७ ॥
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् ।वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ॥ १८ ॥
संजय उवाच ।तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम ।सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥ १९ ॥
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् ।अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥ २० ॥
अपि तस्या अनर्हायाः परिक्लेशस्य माधव ।कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥ २१ ॥
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् ।प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम् ॥ २२ ॥
तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ ।न चकार भयं प्राप्ते भये महति मारिष ॥ २३ ॥
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् ।यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ॥ २४ ॥
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते ।महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥ २५ ॥
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति ।कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥ २६ ॥
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना ।संरम्भमगमद्भूयः स च तस्मिन्परंतपः ॥ २७ ॥
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ ।अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥ २८ ॥
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष ।प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ॥ २९ ॥
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः ।व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥ ३० ॥
तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः ।निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥ ३१ ॥
शोकमीयुः परं चैव कुरवः सर्व एव ते ।अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥ ३२ ॥
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ ।हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ॥ ३३ ॥
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् ।व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥ ३४ ॥
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः ।पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥ ३५ ॥
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च ।तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥ ३६ ॥
यद्बलं तव वीर्यं च केशवस्य तथैव च ।तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥ ३७ ॥
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते ।स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥ ३८ ॥
« »