Click on words to see what they mean.

संजय उवाच ।एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥ १ ॥
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे ।प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥ २ ॥
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः ।अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥ ३ ॥
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च ।प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥ ४ ॥
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् ।अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥ ५ ॥
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥ ६ ॥
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ ।मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥ ७ ॥
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः ।तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥ ८ ॥
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति ॥ ९ ॥
वज्राशनिसमा घोराः परकायावभेदिनः ।शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥ १० ॥
अर्जुन उवाच ।द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता ।अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥ ११ ॥
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥ १२ ॥
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन ।अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥ १३ ॥
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् ।यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥ १४ ॥
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥ १५ ॥
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् ॥ १६ ॥
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥ १७ ॥
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन ।पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥ १८ ॥
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् ।पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् ॥ १९ ॥
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ।नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥ २० ॥
संजय उवाच ।एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ।तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥ २१ ॥
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना ।न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥ २२ ॥
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ।अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥ २३ ॥
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः ।अविध्यत रणे राजञ्शरैराशीविषोपमैः ।भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥ २४ ॥
शरवर्षेण महता ततोऽहृष्यन्त तावकाः ।चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥ २५ ॥
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् ।नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥ २६ ॥
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः ।हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥ २७ ॥
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् ।रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥ २८ ॥
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥ २९ ॥
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।समापेतुः परीप्सन्तो धनंजयशरार्दितम् ॥ ३० ॥
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम् ॥ ३१ ॥
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत ।अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥ ३२ ॥
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥ ३३ ॥
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् ।स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥ ३४ ॥
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥ ३५ ॥
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् ।महता शरवर्षेण तलशब्देन चार्जुनः ॥ ३६ ॥
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः ।रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥ ३७ ॥
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च ।निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥ ३८ ॥
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥ ३९ ॥
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् ॥ ४० ॥
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः ।प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥ ४१ ॥
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ ॥ ४२ ॥
तेन शब्देन महता पूरितेयं वसुंधरा ।सशैला सार्णवद्वीपा सपाताला विशां पते ॥ ४३ ॥
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश ।प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥ ४४ ॥
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ ।संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥ ४५ ॥
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ ।अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् ॥ ४६ ॥
« »