Click on words to see what they mean.

संजय उवाच ।तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे ।कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥ १ ॥
जलसंधं महाबाहुर्भीमसेनो न्यवारयत् ।युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥ २ ॥
किरन्तं शरवर्षाणि रोचमान इवांशुमान् ।धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ॥ ३ ॥
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् ।कुरूणां सोमकानां च संक्रुद्धानां परस्परम् ॥ ४ ॥
संक्षये तु तथा भूते वर्तमाने महाभये ।द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ॥ ५ ॥
द्रोणः पाञ्चालपुत्रेण बली बलवता सह ।विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ॥ ६ ॥
पुण्डरीकवनानीव विध्वस्तानि समन्ततः ।चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ॥ ७ ॥
विनिकीर्णानि वीराणामनीकेषु समन्ततः ।वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ॥ ८ ॥
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च ।संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः ॥ ९ ॥
कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः ।तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ १० ॥
असिचर्माणि चापानि शिरांसि कवचानि च ।विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम् ॥ ११ ॥
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।अदृश्यन्त महाराज तस्मिन्परमसंकुले ॥ १२ ॥
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा ।बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥ १३ ॥
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् ।विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ॥ १४ ॥
आकर्षन्तः शरीराणि शरीरावयवांस्तथा ।नराश्वगजसंघानां शिरांसि च ततस्ततः ॥ १५ ॥
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः ।रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ॥ १६ ॥
असिमार्गान्बहुविधान्विचेरुस्तावका रणे ।ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ॥ १७ ॥
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि ।अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥ १८ ॥
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः ।मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥ १९ ॥
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः ।उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ॥ २० ॥
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते ।धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ॥ २१ ॥
ते हया साध्वशोभन्त विमिश्रा वातरंहसः ।पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ।हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ॥ २२ ॥
धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम् ।असिचर्माददे वीरो धनुरुत्सृज्य भारत ॥ २३ ॥
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा ।ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ॥ २४ ॥
अतिष्ठद्युगमध्ये स युगसंनहनेषु च ।जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ॥ २५ ॥
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः ।न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ २६ ॥
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः ।तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ॥ २७ ॥
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् ।द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ॥ २८ ॥
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली ।ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ॥ २९ ॥
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् ।आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ॥ ३० ॥
तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः ।ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ ३१ ॥
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष ।द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः ॥ ३२ ॥
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे ।शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ॥ ३३ ॥
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् ।प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ॥ ३४ ॥
ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः ।सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ॥ ३५ ॥
« »