Click on words to see what they mean.

धृतराष्ट्र उवाच ।बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते ।तेन वृष्णिप्रवीरेण युयुधानेन संजय ॥ १ ॥
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः ।नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ॥ २ ॥
संजय उवाच ।संप्रद्रुतः क्रोधविषो व्यादितास्यशरासनः ।तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ॥ ३ ॥
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् ।नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ॥ ४ ॥
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः ।रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ॥ ५ ॥
शरपातमहावर्षं रथघोषबलाहकम् ।कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ॥ ६ ॥
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् ।द्रोणमेघमनावार्यं हयमारुतचोदितम् ॥ ७ ॥
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरंजयः ।उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ॥ ८ ॥
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् ।आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ॥ ९ ॥
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् ।आचार्यं राजपुत्राणां सततं शूरमानिनम् ॥ १० ॥
ततो रजतसंकाशा माधवस्य हयोत्तमाः ।द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ॥ ११ ॥
इषुजालावृतं घोरमन्धकारमनन्तरम् ।अनाधृष्यमिवान्येषां शूराणामभवत्तदा ॥ १२ ॥
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा ।नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ॥ १३ ॥
इषूणां संनिपातेन शब्दो धाराभिघातजः ।शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ॥ १४ ॥
नाराचैरतिविद्धानां शराणां रूपमाबभौ ।आशीविषविदष्टानां सर्पाणामिव भारत ॥ १५ ॥
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः ।अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ॥ १६ ॥
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी ।रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ॥ १७ ॥
निर्मलानामजिह्मानां नाराचानां विशां पते ।निर्मुक्ताशीविषाभानां संपातोऽभूत्सुदारुणः ॥ १८ ॥
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ ।उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ॥ १९ ॥
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ ।अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ॥ २० ॥
गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः ।उपारमन्महाराज व्याजहार न कश्चन ॥ २१ ॥
तूष्णींभूतान्यनीकानि योधा युद्धादुपारमन् ।ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ॥ २२ ॥
रथिनो हस्तियन्तारो हयारोहाः पदातयः ।अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ॥ २३ ॥
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् ।तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ॥ २४ ॥
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः ।ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ॥ २५ ॥
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः ।विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ॥ २६ ॥
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु ।गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ॥ २७ ॥
सबलाकाः सखद्योताः सैरावतशतह्रदाः ।अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ॥ २८ ॥
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः ।तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ॥ २९ ॥
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः ।सिद्धचारणसंघाश्च विद्याधरमहोरगाः ॥ ३० ॥
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः ।विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ॥ ३१ ॥
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ ।अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ॥ ३२ ॥
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे ।पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ॥ ३३ ॥
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः ।सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ॥ ३४ ॥
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत ।सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ॥ ३५ ॥
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् ।युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ॥ ३६ ॥
एतदस्त्रबलं रामे कार्तवीर्ये धनंजये ।भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ॥ ३७ ॥
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् ।लाघवं वासवस्येव संप्रेक्ष्य द्विजसत्तमः ॥ ३८ ॥
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः ।न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ॥ ३९ ॥
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते ।सिद्धचारणसंघाश्च विदुर्द्रोणस्य कर्म तत् ॥ ४० ॥
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः ।अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ॥ ४१ ॥
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः ।जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ॥ ४२ ॥
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे ।युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ॥ ४३ ॥
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः ।तमाचार्योऽप्यसंभ्रान्तोऽयोधयच्छत्रुतापनः ॥ ४४ ॥
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः ।वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ॥ ४५ ॥
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः ।अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ॥ ४६ ॥
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ ।न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ॥ ४७ ॥
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते ।न तावदभिषज्येते व्यावर्तदथ भास्करः ॥ ४८ ॥
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः ।नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ॥ ४९ ॥
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः ।मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ॥ ५० ॥
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः ।द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ॥ ५१ ॥
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् ।रजसा संवृते लोके शरजालसमावृते ॥ ५२ ॥
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन ।सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ ५३ ॥
« »