Click on words to see what they mean.

संजय उवाच ।प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा ।दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे ॥ १ ॥
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च ।पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत ॥ २ ॥
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् ।पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् ॥ ३ ॥
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् ।यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते ॥ ४ ॥
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः ।द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥ ५ ॥
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् ।पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः ॥ ६ ॥
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये ।सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ॥ ७ ॥
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् ।जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥ ८ ॥
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः ।गदाविद्युन्महारौद्रः संग्रामजलदो महान् ॥ ९ ॥
भारद्वाजानिलोद्धूतः शरधारासहस्रवान् ।अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् ॥ १० ॥
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः ।व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः ॥ ११ ॥
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् ।बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव ॥ १२ ॥
वारयामास तान्द्रोणो जलौघानचलो यथा ।पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् ॥ १३ ॥
अथापरेऽपि राजानः परावृत्य समन्ततः ।महाबला रणे शूराः पाञ्चालानन्ववारयन् ॥ १४ ॥
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह ।संजघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् ॥ १५ ॥
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते ।तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत ॥ १६ ॥
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः ।ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः ॥ १७ ॥
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् ।निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् ॥ १८ ॥
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् ।ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः ॥ १९ ॥
तथा तु यतमानस्य द्रोणस्य युधि भारत ।धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत ॥ २० ॥
भोजमेके न्यवर्तन्त जलसंधमथापरे ।पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् ॥ २१ ॥
सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः ।व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः ॥ २२ ॥
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः ।अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव ॥ २३ ॥
कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान् ।संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः ॥ २४ ॥
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः ।द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी ॥ २५ ॥
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च ।चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा ॥ २६ ॥
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः ।अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः ॥ २७ ॥
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः ।बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः ॥ २८ ॥
रथं नागं हयं चापि पत्तिनश्च विशां पते ।एकैकेनेषुणा संख्ये निर्बिभेद महारथः ॥ २९ ॥
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत ।दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् ॥ ३० ॥
तत्पच्यमानमर्केण द्रोणसायकतापितम् ।बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत ॥ ३१ ॥
तथैव पार्षतेनापि काल्यमानं बलं तव ।अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना ॥ ३२ ॥
वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः ।त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः ॥ ३३ ॥
तावकानां परेषां च युध्यतां भरतर्षभ ।नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् ॥ ३४ ॥
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् ।विविंशतिश्चित्रसेनो विकर्णश्च महारथः ॥ ३५ ॥
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् ।त्रयाणां तव पुत्राणां त्रय एवानुयायिनः ॥ ३६ ॥
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः ।सहसेनः सहामात्यो द्रौपदेयानवारयत् ॥ ३७ ॥
शैब्यो गोवासनो राजा योधैर्दशशतावरैः ।काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् ॥ ३८ ॥
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् ।मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् ॥ ३९ ॥
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः ।सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि ॥ ४० ॥
स्वकेनाहमनीकेन संनद्धकवचावृतः ।चतुःशतैर्महेष्वासैश्चेकितानमवारयम् ॥ ४१ ॥
शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् ।गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ॥ ४२ ॥
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् ।प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ॥ ४३ ॥
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् ।बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥ ४४ ॥
धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः ।आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥ ४५ ॥
घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् ।अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥ ४६ ॥
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः ।सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥ ४७ ॥
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत ।रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः ॥ ४८ ॥
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ ।द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥ ४९ ॥
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः ।कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः ॥ ५० ॥
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा ॥ ५१ ॥
« »