Click on words to see what they mean.

संजय उवाच ।ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया ।द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् ॥ १ ॥
काम्बोजस्य च दायादे हते राजन्सुदक्षिणे ।श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना ॥ २ ॥
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः ।प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् ॥ ३ ॥
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् ।गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् ॥ ४ ॥
अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् ।अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये ॥ ५ ॥
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः ।तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः ॥ ६ ॥
असौ धनंजयाग्निर्हि कोपमारुतचोदितः ।सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः ॥ ७ ॥
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परंतप ।जयद्रथस्य गोप्तारः संशयं परमं गताः ॥ ८ ॥
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर ।नातिक्रमिष्यति द्रोणं जातु जीवन्धनंजयः ॥ ९ ॥
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते ।सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम ॥ १० ॥
जानामि त्वां महाभाग पाण्डवानां हिते रतम् ।तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् ॥ ११ ॥
यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् ।प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे ॥ १२ ॥
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम ।पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् ॥ १३ ॥
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः ।न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् ॥ १४ ॥
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे ।नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् ॥ १५ ॥
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना ।आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे ॥ १६ ॥
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः ।नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः ॥ १७ ॥
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः ।मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् ॥ १८ ॥
द्रोण उवाच ।नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः ।सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते ॥ १९ ॥
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः ।अल्पं च विवरं कृत्वा तूर्णं याति धनंजयः ॥ २० ॥
किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः ।पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः ॥ २१ ॥
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः ।सेनामुखे च पार्थानामेतद्बलमुपस्थितम् ॥ २२ ॥
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् ।एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज ॥ २३ ॥
धनंजयेन चोत्सृष्टो वर्तते प्रमुखे मम ।तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् ॥ २४ ॥
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् ।गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः ॥ २५ ॥
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः ।वीर स्वयं प्रयाह्याशु यत्र यातो धनंजयः ॥ २६ ॥
दुर्योधन उवाच ।कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः ।धनंजयो मया शक्य आचार्य प्रतिबाधितुम् ॥ २७ ॥
अपि शक्यो रणे जेतुं वज्रहस्तः पुरंदरः ।नार्जुनः समरे शक्यो जेतुं परपुरंजयः ॥ २८ ॥
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः ।अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः ॥ २९ ॥
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः ।श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः ॥ ३० ॥
तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् ।प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद ॥ ३१ ॥
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् ।परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः ॥ ३२ ॥
द्रोण उवाच ।सत्यं वदसि कौरव्य दुराधर्षो धनंजयः ।अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि ॥ ३३ ॥
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः ।विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः ॥ ३४ ॥
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् ।यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे ॥ ३५ ॥
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः ।योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् ॥ ३६ ॥
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे ।शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति ॥ ३७ ॥
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् ।त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते ॥ ३८ ॥
संजय उवाच ।एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् ।आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि ॥ ३९ ॥
रणे तस्मिन्सुमहति विजयाय सुतस्य ते ।विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः ॥ ४० ॥
द्रोण उवाच ।करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः ।सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत ॥ ४१ ॥
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः ।तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः ॥ ४२ ॥
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च ।स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे ॥ ४३ ॥
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा ।लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ ॥ ४४ ॥
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः ।वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप ॥ ४५ ॥
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः ।स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः ॥ ४६ ॥
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः ।दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः ॥ ४७ ॥
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप ।स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥ ४८ ॥
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः ।पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः ॥ ४९ ॥
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः ।ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् ॥ ५० ॥
देवा ऊचुः ।प्रमर्दितानां वृत्रेण देवानां देवसत्तम ।गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् ॥ ५१ ॥
द्रोण उवाच ।अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् ।प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् ॥ ५२ ॥
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः ।त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः ॥ ५३ ॥
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा ।वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् ॥ ५४ ॥
स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली ।नागत्वा शंकरस्थानं भगवान्दृश्यते हरः ॥ ५५ ॥
दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् ।यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः ।पिनाकी सर्वभूतेशो भगनेत्रनिपातनः ॥ ५६ ॥
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् ।अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् ॥ ५७ ॥
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् ।अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः ॥ ५८ ॥
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः ।तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् ॥ ५९ ॥
मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः ।शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर ॥ ६० ॥
महेश्वर उवाच ।विदितं मे यथा देवाः कृत्येयं सुमहाबला ।त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः ॥ ६१ ॥
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् ।ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् ।बधानानेन मन्त्रेण मानसेन सुरेश्वर ॥ ६२ ॥
द्रोण उवाच ।इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च ।स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति ॥ ६३ ॥
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे ।न संधिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु ॥ ६४ ॥
ततो जघान समरे वृत्रं देवपतिः स्वयम् ।तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ ॥ ६५ ॥
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः ।बृहस्पतिरथोवाच अग्निवेश्याय धीमते ॥ ६६ ॥
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते ।तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम ॥ ६७ ॥
संजय उवाच ।एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः ।पुनरेव वचः प्राह शनैराचार्यपुंगवः ॥ ६८ ॥
ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव ।हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे ॥ ६९ ॥
यथा च ब्रह्मणा बद्धं संग्रामे तारकामये ।शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव ॥ ७० ॥
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् ।प्रेषयामास राजानं युद्धाय महते द्विजः ॥ ७१ ॥
स संनद्धो महाबाहुराचार्येण महात्मना ।रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् ॥ ७२ ॥
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् ।अश्वानामयुतेनैव तथान्यैश्च महारथैः ॥ ७३ ॥
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति ।नानावादित्रघोषेण यथा वैरोचनिस्तथा ॥ ७४ ॥
ततः शब्दो महानासीत्सैन्यानां तव भारत ।अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् ॥ ७५ ॥
« »