Click on words to see what they mean.

संजय उवाच ।विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः ।रराजातिरथः संख्ये जनार्दन इवापरः ॥ १ ॥
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् ।वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि ॥ २ ॥
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा ।महारथस्ततः कार्ष्णिः संजग्राह महागदाम् ॥ ३ ॥
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः ।अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् ॥ ४ ॥
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव ।अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः ॥ ५ ॥
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी ।शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत ॥ ६ ॥
ततः सुबलदायादं कालकेयमपोथयत् ।जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् ॥ ७ ॥
पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश ।केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् ।दौःशासनिरथं साश्वं गदया समपोथयत् ॥ ८ ॥
ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष ।अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ९ ॥
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ ।भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ ॥ १० ॥
तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ ।इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ ॥ ११ ॥
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः ।प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् ॥ १२ ॥
गदावेगेन महता व्यायामेन च मोहितः ।विचेता न्यपतद्भूमौ सौभद्रः परवीरहा ।एवं विनिहतो राजन्नेको बहुभिराहवे ॥ १३ ॥
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः ।अशोभत हतो वीरो व्याधैर्वनगजो यथा ॥ १४ ॥
तं तथा पतितं शूरं तावकाः पर्यवारयन् ।दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये ॥ १५ ॥
विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम् ।अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् ॥ १६ ॥
उपप्लुतं यथा सोमं संशुष्कमिव सागरम् ।पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् ॥ १७ ॥
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः ।मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः ॥ १८ ॥
आसीत्परमको हर्षस्तावकानां विशां पते ।इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् ॥ १९ ॥
अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते ।दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् ॥ २० ॥
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः ।एकोऽयं निहतः शेते नैष धर्मो मतो हि नः ॥ २१ ॥
तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी ।द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी ॥ २२ ॥
रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता ।उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः ॥ २३ ॥
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता ।चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः ॥ २४ ॥
रथाश्वनरनागानामलंकारैश्च सुप्रभैः ।खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव ॥ २५ ॥
चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः ।विविधैरायुधैश्चान्यैः संवृता भूरशोभत ॥ २६ ॥
वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः ।सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः ॥ २७ ॥
साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः ।पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः ॥ २८ ॥
पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः ।ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः ॥ २९ ॥
पदातिसंघैश्च हतैर्विविधायुधभूषणैः ।भीरूणां त्रासजननी घोररूपाभवन्मही ॥ ३० ॥
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् ।तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा ॥ ३१ ॥
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने ।संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः ॥ ३२ ॥
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते ।अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् ॥ ३३ ॥
स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः ।संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् ॥ ३४ ॥
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः ।धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् ॥ ३५ ॥
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् ।पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात् ॥ ३६ ॥
हत्वा दशसहस्राणि कौसल्यं च महारथम् ।कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् ॥ ३७ ॥
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः ।अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत् ॥ ३८ ॥
वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः ।निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः ॥ ३९ ॥
निरीक्षमाणास्तु वयं परे चायोधनं शनैः ।अपयाता महाराज ग्लानिं प्राप्ता विचेतसः ॥ ४० ॥
ततो निशाया दिवसस्य चाशिवः शिवारुतः संधिरवर्तताद्भुतः ।कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम् ॥ ४१ ॥
वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन्प्रभाम् ।दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम् ॥ ४२ ॥
महाभ्रकूटाचलशृङ्गसंनिभैर्गजैरनेकैरिव वज्रपातितैः ।सवैजयन्त्यङ्कुशवर्मयन्तृभिर्निपातितैर्निष्टनतीव गौश्चिता ॥ ४३ ॥
हतेश्वरैश्चूर्णितपत्त्युपस्करैर्हताश्वसूतैर्विपताककेतुभिः ।महारथैर्भूः शुशुभे विचूर्णितैः पुरैरिवामित्रहतैर्नराधिप ॥ ४४ ॥
रथाश्ववृन्दैः सहसादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः ।निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शना ॥ ४५ ॥
प्रविद्धवर्माभरणा वरायुधा विपन्नहस्त्यश्वरथानुगा नराः ।महार्हशय्यास्तरणोचिताः सदा क्षितावनाथा इव शेरते हताः ॥ ४६ ॥
अतीव हृष्टाः श्वसृगालवायसा बडाः सुपर्णाश्च वृकास्तरक्षवः ।वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसंघाश्च सुदारुणा रणे ॥ ४७ ॥
त्वचो विनिर्भिद्य पिबन्वसामसृक्तथैव मज्जां पिशितानि चाश्नुवन् ।वपां विलुम्पन्ति हसन्ति गान्ति च प्रकर्षमाणाः कुणपान्यनेकशः ॥ ४८ ॥
शरीरसंघाटवहा असृग्जला रथोडुपा कुञ्जरशैलसंकटा ।मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी ॥ ४९ ॥
महाभया वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी ।उवाह मध्येन रणाजिरं भृशं भयावहा जीवमृतप्रवाहिनी ॥ ५० ॥
पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः पिशाचसंघा विविधाः सुभैरवाः ।सुनन्दिताः प्राणभृतां भयंकराः समानभक्षाः श्वसृगालपक्षिणः ॥ ५१ ॥
तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रसंनिभम् ।निरीक्षमाणाः शनकैर्जहुर्नराः समुत्थितारुण्डकुलोपसंकुलम् ॥ ५२ ॥
अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महारथम् ।रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम् ॥ ५३ ॥
« »