Click on words to see what they mean.

संजय उवाच ।तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे ।विमुक्तरथसंनाहाः सर्वे निक्षिप्तकार्मुकाः ॥ १ ॥
उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् ।तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः ॥ २ ॥
ततो युधिष्ठिरो राजा विललाप सुदुःखितः ।अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे ॥ ३ ॥
द्रोणानीकमसंबाधं मम प्रियचिकीर्षया ।भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी ॥ ४ ॥
यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे ।प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः ॥ ५ ॥
अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः ।क्षिप्रं ह्यभिमुखः संक्ये विसंज्ञो विमुखीकृतः ॥ ६ ॥
स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् ।प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् ॥ ७ ॥
कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् ।सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् ॥ ८ ॥
किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् ।तावुभौ प्रतिवक्ष्यामो हृषीकेशधनंजयौ ॥ ९ ॥
अहमेव सुभद्रायाः केशवार्जुनयोरपि ।प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् ॥ १० ॥
न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते ।मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् ॥ ११ ॥
यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च ।भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः ॥ १२ ॥
कथं हि बालस्तरुणो युद्धानामविशारदः ।सदश्व इव संबाधे विषमे क्षेममर्हति ॥ १३ ॥
नो चेद्धि वयमप्येनं महीमनुशयीमहि ।बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा ॥ १४ ॥
अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली ।वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः ॥ १५ ॥
यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः ।निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् ॥ १६ ॥
महेन्द्रशत्रवो येन हिरण्यपुरवासिनः ।अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः ॥ १७ ॥
परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः ।तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् ॥ १८ ॥
भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् ।पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति ॥ १९ ॥
क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः ।व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् ॥ २० ॥
न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता ।इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम् ॥ २१ ॥
« »