Click on words to see what they mean.

संजय उवाच ।शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् ।अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥ १ ॥
दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुमागतम् ।निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् ॥ २ ॥
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः ।कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः ।जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता ॥ ३ ॥
परवित्तापहारस्य क्रोधस्याप्रशमस्य च ।लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च ॥ ४ ॥
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् ।तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् ॥ ५ ॥
सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते ।शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः ॥ ६ ॥
अद्याहमनृणस्तस्य कोपस्य भविता रणे ।अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः ॥ ७ ॥
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि ।न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ ८ ॥
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् ।संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम् ॥ ९ ॥
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् ।अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ॥ १० ॥
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।दुःशासनो महाराज कश्मलं चाविशन्महत् ॥ ११ ॥
सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् ।रणमध्यादपोवाह सौभद्रशरपीडितम् ॥ १२ ॥
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् ।पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् ॥ १३ ॥
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः ।प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः ॥ १४ ॥
पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् ।अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् ॥ १५ ॥
धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा ।धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः ॥ १६ ॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ ।केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः ॥ १७ ॥
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः ।अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः ॥ १८ ॥
ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह ।जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् ॥ १९ ॥
दुर्योधनो महाराज राधेयमिदमब्रवीत् ।पश्य दुःशासनं वीरमभिमन्युवशं गतम् ॥ २० ॥
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे ।सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः ॥ २१ ॥
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् ।अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव ॥ २२ ॥
तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः ।अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे ॥ २३ ॥
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः ।अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः ॥ २४ ॥
तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे ।आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् ॥ २५ ॥
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् ।सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् ॥ २६ ॥
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् ।समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् ॥ २७ ॥
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः ।समरेऽमरसंकाशः सौभद्रो न व्यषीदत ॥ २८ ॥
ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः ।छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् ।स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् ॥ २९ ॥
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः ।सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् ॥ ३० ॥
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः ।वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः ॥ ३१ ॥
« »