Click on words to see what they mean.

संजय उवाच ।सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः ।तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् ॥ १ ॥
सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् ।सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव ॥ २ ॥
पितृपैतामहं कर्म कुर्वाणमतिमानुषम् ।दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् ॥ ३ ॥
तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा ।शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि ॥ ४ ॥
कर्णिकारमिवोद्धूतं वातेन मथितं नगात् ।भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ ॥ ५ ॥
विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः ।अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे ॥ ६ ॥
ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् ।झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः ॥ ७ ॥
कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना ।अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत ॥ ८ ॥
शलभैरिव चाकाशे धाराभिरिव चावृते ।अभिमन्योः शरै राजन्न प्राज्ञायत किंचन ॥ ९ ॥
तावकानां तु योधानां वध्यतां निशितैः शरैः ।अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत ॥ १० ॥
सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः ।शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ ॥ ११ ॥
स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् ।मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत ॥ १२ ॥
रथनागाश्वमनुजानर्दयन्निशितैः शरैः ।स प्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम् ॥ १३ ॥
सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः ।स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः ॥ १४ ॥
ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः ।निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम् ॥ १५ ॥
सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे ।दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः ॥ १६ ॥
शराश्चापानि खड्गाश्च शरीराणि शिरांसि च ।सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः ॥ १७ ॥
अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः ।शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः ॥ १८ ॥
निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते ।अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा ॥ १९ ॥
वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् ।प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः ।स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् ॥ २० ॥
सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् ।व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् ॥ २१ ॥
तं तदा नानुपश्याम सैन्येन रजसावृतम् ।आददानं गजाश्वानां नृणां चायूंषि भारत ॥ २२ ॥
क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा ।अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् ॥ २३ ॥
स वासवसमः संख्ये वासवस्यात्मजात्मजः ।अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत ॥ २४ ॥
« »