Click on words to see what they mean.

धृतराष्ट्र उवाच ।द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय ।मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥ १ ॥
विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः ।विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥ २ ॥
संजय उवाच ।हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् ।एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥ ३ ॥
अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् ।रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥ ४ ॥
द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् ।दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् ॥ ५ ॥
नानानृपान्नृपसुतान्सैन्यानि विविधानि च ।अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥ ६ ॥
निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् ।अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥ ७ ॥
तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः ।समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः ॥ ८ ॥
अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् ।हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥ ९ ॥
घट्टयन्निव मर्माणि तव पुत्रस्य मारिष ।अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥ १० ॥
एष गच्छति सौभद्रः पार्थानामग्रतो युवा ।नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् ॥ ११ ॥
नकुलं सहदेवं च भीमसेनं च पाण्डवम् ।बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥ १२ ॥
नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् ।इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥ १३ ॥
द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः ।आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥ १४ ॥
अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् ।दुःसासनं मद्रराजं तांस्तांश्चान्यान्महारथान् ॥ १५ ॥
सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः ।अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥ १६ ॥
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ।किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥ १७ ॥
अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति ।पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥ १८ ॥
संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः ।आत्मसंभावितो मूढस्तं प्रमथ्नीत माचिरम् ॥ १९ ॥
एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः ।संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥ २० ॥
दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा ।अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः ॥ २१ ॥
अहमेनं हनिष्यामि महाराज ब्रवीमि ते ।मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ।ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥ २२ ॥
उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः ।श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ।गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥ २३ ॥
तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः ।एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥ २४ ॥
तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव ।शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥ २५ ॥
एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव ।सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥ २६ ॥
तमभिक्रुद्धमायान्तं तव पुत्रमरिंदमः ।अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् ॥ २७ ॥
दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः ।अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥ २८ ॥
तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् ।चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥ २९ ॥
अथ पणवमृदङ्गदुन्दुभीनां कृकरमहानकभेरिझर्झराणाम् ।निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम् ॥ ३० ॥
« »