Click on words to see what they mean.

संजय उवाच ।तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥ १ ॥
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् ॥ २ ॥
पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् ।तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् ॥ ३ ॥
ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः ।त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥ ४ ॥
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥ ५ ॥
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।सौभद्रं शरवर्षेण महता समवाकिरन् ॥ ६ ॥
संमोहयित्वा तमथ दुर्योधनममोचयन् ।आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥ ७ ॥
ताञ्शरौघेण महता साश्वसूतान्महारथान् ।विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥ ८ ॥
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥ ९ ॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।व्यसृजन्निषुजालानि नानालिङ्गानि संघशः ॥ १० ॥
तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः ।तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥ ११ ॥
ततस्ते कोपितास्तेन शरैराशीविषोपमैः ।परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् ॥ १२ ॥
समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् ।अभिमन्युर्दधारैको वेलेव मकरालयम् ॥ १३ ॥
शूराणां युध्यमानानां निघ्नतामितरेतरम् ।अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥ १४ ॥
तस्मिंस्तु घोरे संग्रामे वर्तमाने भयंकरे ।दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥ १५ ॥
दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥ १६ ॥
विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः ।बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः ॥ १७ ॥
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः ।द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥ १८ ॥
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥ १९ ॥
ततोऽभिमन्युः संक्रुद्धस्ताप्यमानस्तवात्मजैः ।विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥ २० ॥
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् ।विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् ॥ २१ ॥
तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् ।बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥ २२ ॥
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।संचचाल बलं सर्वं पलायनपरायणम् ॥ २३ ॥
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः ।शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ॥ २४ ॥
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ।वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।दुर्योधनश्च संक्रुद्धः शरवर्षैरवाकिरन् ॥ २५ ॥
सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः ।शरमादत्त कर्णाय परकायावभेदनम् ॥ २६ ॥
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ॥ २७ ॥
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।संचचाल रणे कर्णः क्षितिकम्पे यथाचलः ॥ २८ ॥
अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।कुण्डभेदिं च संक्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥ २९ ॥
कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् ।अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥ ३० ॥
स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः ॥ ३१ ॥
शल्यं च बाणवर्षेण समीपस्थमवाकिरत् ।उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥ ३२ ॥
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥ ३३ ॥
तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना ।संप्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥ ३४ ॥
प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव ॥ ३५ ॥
स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसंघैः ।अवनितलगतैश्च भूतसंघैरतिविबभौ हुतभुग्यथाज्यसिक्तः ॥ ३६ ॥
« »