Click on words to see what they mean.

संजय उवाच ।सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः ।अचोदयत यन्तारं द्रोणानीकाय भारत ॥ १ ॥
तेन संचोद्यमानस्तु याहि याहीति सारथिः ।प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥ २ ॥
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः ।संप्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि ॥ ३ ॥
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः ।अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः ॥ ४ ॥
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् ।सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा ॥ ५ ॥
ऐरावतगतं शक्रं सहामरगणैरहम् ।योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ।न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् ॥ ६ ॥
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज ।पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति ॥ ७ ॥
ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः ।याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥ ८ ॥
ततः संचोदयामास हयानस्य त्रिहायनान् ।नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥ ९ ॥
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः ।द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः ॥ १० ॥
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः ।अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥ ११ ॥
स कर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्मार्जुनिरर्जुनाद्वरः ।युयुत्सया द्रोणमुखान्महारथान्समासदत्सिंहशिशुर्यथा गजान् ॥ १२ ॥
ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे ।आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव ॥ १३ ॥
शूराणां युध्यमानानां निघ्नतामितरेतरम् ।संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥ १४ ॥
प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे ।द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः ॥ १५ ॥
तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् ।हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥ १६ ॥
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः ।हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः ॥ १७ ॥
घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति ।असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः ॥ १८ ॥
बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि ।संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥ १९ ॥
तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् ।क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः ॥ २० ॥
ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः ।अभिपेतुस्तमेवाजौ शलभा इव पावकम् ॥ २१ ॥
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः ।संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥ २२ ॥
बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् ।सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् ॥ २३ ॥
सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् ।सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् ॥ २४ ॥
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् ।समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥ २५ ॥
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् ।संचिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ॥ २६ ॥
तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः ।पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥ २७ ॥
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः ।संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥ २८ ॥
चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः ।विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥ २९ ॥
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः ।द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः ॥ ३० ॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् ॥ ३१ ॥
विजङ्घकूबराक्षांश्च विनेमीननरानपि ।विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥ ३२ ॥
प्रशातितोपकरणान्हतयोधान्सहस्रशः ।शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥ ३३ ॥
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् ।तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् ॥ ३४ ॥
घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् ।शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥ ३५ ॥
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् ।स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥ ३६ ॥
स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः ।विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् ॥ ३७ ॥
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् ।हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् ॥ ३८ ॥
निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् ।निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत ॥ ३९ ॥
एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् ।तथा विमथितं तेन त्र्यङ्गं तव बलं महत् ।व्यहनत्स पदात्योघांस्त्वदीयानेव भारत ॥ ४० ॥
एवमेकेन तां सेनां सौभद्रेण शितैः शरैः ।भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥ ४१ ॥
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश ।संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः ॥ ४२ ॥
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥ ४३ ॥
हतान्पुत्रांस्तथा पितॄन्सुहृत्संबन्धिबान्धवान् ।प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥ ४४ ॥
« »