Click on words to see what they mean.

संजय उवाच ।तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् ।पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः ॥ १ ॥
सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः ॥ २ ॥
आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् ।चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः ॥ ३ ॥
युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः ।उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः ॥ ४ ॥
द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् ।केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः ॥ ५ ॥
एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः ।समभ्यधावन्सहसा भारद्वाजं युयुत्सवः ॥ ६ ॥
समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् ।असंभ्रान्तः शरौघेण महता समवारयत् ॥ ७ ॥
महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् ।द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः ॥ ८ ॥
पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः ।न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः ॥ ९ ॥
तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् ।यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह ॥ १० ॥
तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः ।बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् ॥ ११ ॥
अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः ।अविषह्यं गुरुं भारं सौभद्रे समवासृजत् ॥ १२ ॥
वासुदेवादनवरं फल्गुनाच्चामितौजसम् ।अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः ॥ १३ ॥
एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु ।चक्रव्यूहस्य न वयं विद्म भेदं कथंचन ॥ १४ ॥
त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा ।चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते ॥ १५ ॥
अभिमन्यो वरं तात याचतां दातुमर्हसि ।पितॄणां मातुलानां च सैन्यानां चैव सर्वशः ॥ १६ ॥
धनंजयो हि नस्तात गर्हयेदेत्य संयुगात् ।क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय ॥ १७ ॥
अभिमन्युरुवाच ।द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि ।पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च ॥ १८ ॥
उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने ।नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि ॥ १९ ॥
युधिष्ठिर उवाच ।भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः ।वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि ॥ २० ॥
धनंजयसमं युद्धे त्वां वयं तात संयुगे ।प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः ॥ २१ ॥
भीम उवाच ।अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः ॥ २२ ॥
सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः ।वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् ॥ २३ ॥
अभिमन्युरुवाच ।अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् ।पतंग इव संक्रुद्धो ज्वलितं जातवेदसम् ॥ २४ ॥
तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः ।मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे ॥ २५ ॥
शिशुनैकेन संग्रामे काल्यमानानि संघशः ।अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया ॥ २६ ॥
युधिष्ठिर उवाच ।एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् ॥ २७ ॥
रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः ।साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः ॥ २८ ॥
संजय उवाच ।तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् ।सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय ॥ २९ ॥
« »