Click on words to see what they mean.

धृतराष्ट्र उवाच ।तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण संजय ।चलितानां द्रुतानां च कथमासीन्मनो हि वः ॥ १ ॥
अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् ।दुष्करं प्रतिसंधानं तन्ममाचक्ष्व संजय ॥ २ ॥
संजय उवाच ।तथापि तव पुत्रस्य प्रियकामा विशां पते ।यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः ॥ ३ ॥
समुद्यतेषु शस्त्रेषु संप्राप्ते च युधिष्ठिरे ।अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ॥ ४ ॥
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः ।सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ॥ ५ ॥
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् ।मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् ॥ ६ ॥
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे ।कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ॥ ७ ॥
यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् ।तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते ॥ ८ ॥
यथाभागविपर्यासे संग्रामे भैरवे सति ।वीराः समासदन्वीरानगच्छन्भीरवः परान् ॥ ९ ॥
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः ।अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ॥ १० ॥
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः ।त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ॥ ११ ॥
अयसामिव संपातः शिलानामिव चाभवत् ।दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ॥ १२ ॥
न तु स्मरन्ति संग्राममपि वृद्धास्तथाविधम् ।दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ॥ १३ ॥
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने ।प्रवर्तता बलौघेन महता भारपीडिता ॥ १४ ॥
घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः ।अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ॥ १५ ॥
समासाद्य तु पाण्डूनामनीकानि सहस्रशः ।द्रोणेन चरता संख्ये प्रभग्नानि शितैः शरैः ॥ १६ ॥
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा ।पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् ॥ १७ ॥
तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा ।नैव तस्योपमा काचित्संभवेदिति मे मतिः ॥ १८ ॥
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् ।शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ॥ १९ ॥
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् ।पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत ॥ २० ॥
नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा ।मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ॥ २१ ॥
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् ।व्याकोशपद्माभमुखं नीलो विव्याध सायकैः ॥ २२ ॥
तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः ।धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ॥ २३ ॥
सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् ।द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् ॥ २४ ॥
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् ।भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ ॥ २५ ॥
संपूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः ।प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ॥ २६ ॥
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला ।आचार्यपुत्रेण हते नीले ज्वलिततेजसि ॥ २७ ॥
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः ।कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष ॥ २८ ॥
दक्षिणेन तु सेनायाः कुरुते कदनं बली ।संशप्तकावशेषस्य नारायणबलस्य च ॥ २९ ॥
« »