Click on words to see what they mean.

संजय उवाच ।प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः ।सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः ॥ १ ॥
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः ।जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह ॥ २ ॥
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः ।षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् ॥ ३ ॥
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः ।द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः ॥ ४ ॥
दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः ।आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे ॥ ५ ॥
तस्मिन्संत्यजति प्राणान्मृत्युसाधारणीकृते ।अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् ॥ ६ ॥
ते ययुर्भीमसेनस्य समीपममितौजसः ।युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ ॥ ७ ॥
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः ।महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः ॥ ८ ॥
समापेतुर्महावीर्या भीमप्रभृतयो रथाः ।तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः ॥ ९ ॥
महाबलानतिरथान्वीरान्समरशोभिनः ।बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः ॥ १० ॥
सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् ।आसीच्छक्त्यसिसंपातो युद्धमासीत्परश्वधैः ॥ ११ ॥
निकृष्टमसियुद्धं च बभूव कटुकोदयम् ।कुञ्जराणां च संघातैर्युद्धमासीत्सुदारुणम् ॥ १२ ॥
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः ।नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष ॥ १३ ॥
तत्रान्यस्य च संमर्दे पतितस्य विवर्मणः ।शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः ॥ १४ ॥
अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् ।विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् ॥ १५ ॥
नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः ।बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् ॥ १६ ॥
कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् ।पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव ॥ १७ ॥
गृध्रपत्राधिवासांसि शयनानि नराधिपाः ।ह्रीमन्तः कालसंपक्वाः सुदुःखान्यधिशेरते ॥ १८ ॥
हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते ।पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत ॥ १९ ॥
अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् ।युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः ॥ २० ॥
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् ।गजेनाक्षिप्य बलिना रथः संचूर्णितः क्षितौ ॥ २१ ॥
रथिना ताडितो नागो नाराचेनापतद्व्यसुः ।सारोहश्चापतद्वाजी गजेनाताडितो भृशम् ॥ २२ ॥
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् ।हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि ॥ २३ ॥
प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः ।इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः ॥ २४ ॥
नरस्याश्वस्य नागस्य समसज्जत शोणितम् ।उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् ॥ २५ ॥
आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् ।नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् ॥ २६ ॥
तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः ।सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा ॥ २७ ॥
प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् ।अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् ॥ २८ ॥
शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् ।स्वानन्योऽथ परानन्यो जघान निशितैः शरैः ॥ २९ ॥
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः ।मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे ॥ ३० ॥
तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् ।अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् ॥ ३१ ॥
शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् ।बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् ॥ ३२ ॥
सर्वमाविग्नमभवन्न प्राज्ञायत किंचन ।सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत ॥ ३३ ॥
ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् ।नित्याभित्वरितानेव त्वरयामास पाण्डवान् ॥ ३४ ॥
कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः ।सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति ॥ ३५ ॥
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत ।इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति ॥ ३६ ॥
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः ।विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन् ॥ ३७ ॥
ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः ।शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह ॥ ३८ ॥
ततो द्रोणोऽभिसंक्रुद्धो विसृजञ्शतशः शरान् ।चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् ॥ ३९ ॥
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष ।वज्रसंघातसंकाशस्त्रासयन्पाण्डवान्बहून् ॥ ४० ॥
एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली ।अभ्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति ॥ ४१ ॥
तं शरौघमहावर्तं शोणितोदं महाह्रदम् ।तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः ॥ ४२ ॥
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः ।दीप्यमानमपश्याम तेजसा वानरध्वजम् ॥ ४३ ॥
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः ।स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् ॥ ४४ ॥
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा ।युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः ॥ ४५ ॥
तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः ।ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः ॥ ४६ ॥
केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः ।पार्थबाणहताः केचिन्निपेतुर्विगतासवः ॥ ४७ ॥
तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् ।न जघानार्जुनो योधान्योधव्रतमनुस्मरन् ॥ ४८ ॥
ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः ।कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः ॥ ४९ ॥
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् ।मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् ॥ ५० ॥
स भारतरथश्रेष्ठः सर्वभारतहर्षणः ।प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः ॥ ५१ ॥
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ।शरौघाञ्शरजालेन विदुधाव धनंजयः ।अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ॥ ५२ ॥
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः ।विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ॥ ५३ ॥
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः ।तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः ॥ ५४ ॥
ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव ।रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ॥ ५५ ॥
ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः ।दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ॥ ५६ ॥
ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः ।ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् ॥ ५७ ॥
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः ।कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः ॥ ५८ ॥
ततः शत्रुंजयं हत्वा पार्थः षड्भिरजिह्मगैः ।जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ॥ ५९ ॥
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना ।प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः ॥ ६० ॥
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् ।वरासिना कर्णपक्षाञ्जघान दश पञ्च च ॥ ६१ ॥
पुनः स्वरथमास्थाय धनुरादाय चापरम् ।विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ॥ ६२ ॥
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् ।जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् ॥ ६३ ॥
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् ।आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे ॥ ६४ ॥
शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति ।सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥ ६५ ॥
भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् ।पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ६६ ॥
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः ।निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् ॥ ६७ ॥
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च ।नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ॥ ६८ ॥
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् ।तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ॥ ६९ ॥
पदातिरथनागाश्वैर्गजाश्वरथपत्तयः ।रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः ॥ ७० ॥
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह ।संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः ॥ ७१ ॥
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् ।महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ॥ ७२ ॥
ततो हता नररथवाजिकुञ्जरैरनेकशो द्विपरथवाजिपत्तयः ।गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः ॥ ७३ ॥
रथैर्द्विपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः ।निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः ॥ ७४ ॥
तथा परैर्बहुकरणैर्वरायुधैर्हता गताः प्रतिभयदर्शनाः क्षितिम् ।विपोथिता हयगजपादताडिता भृशाकुला रथखुरनेमिभिर्हताः ॥ ७५ ॥
प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे ।महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा ॥ ७६ ॥
ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसंप्लुते ।दिवाकरेऽस्तंगिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत ॥ ७७ ॥
« »