Click on words to see what they mean.

संजय उवाच ।प्रियमिन्द्रस्य सततं सखायममितौजसम् ।हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत ॥ १ ॥
ततो गान्धारराजस्य सुतौ परपुरंजयौ ।आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ ॥ २ ॥
तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ ।अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् ॥ ३ ॥
वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् ।तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः ॥ ४ ॥
ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि ।गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः ॥ ५ ॥
ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् ।प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः ॥ ६ ॥
हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः ।आरुरोह रथं भ्रातुरन्यच्च धनुराददे ॥ ७ ॥
तावेकरथमारूढौ भ्रातरौ वृषकाचलौ ।शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः ॥ ८ ॥
स्यालौ तव महात्मानौ राजानौ वृषकाचलौ ।भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव ॥ ९ ॥
लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः ।निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा ॥ १० ॥
तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ ।संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः ॥ ११ ॥
तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ ।गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ ॥ १२ ॥
तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ ।यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ ॥ १३ ॥
दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ ।भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते ॥ १४ ॥
निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः ।कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः ॥ १५ ॥
लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः ।गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः ॥ १६ ॥
सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः ।क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः ॥ १७ ॥
चक्राणि विशिखाः प्रासा विविधान्यायुधानि च ।प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति ॥ १८ ॥
खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः ।ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः ॥ १९ ॥
विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति ।संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च ॥ २० ॥
ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः ।विसृजन्निषुजालानि सहसा तान्यताडयत् ॥ २१ ॥
ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः ।विरुवन्तो महारावान्विनेशुः सर्वतो हताः ॥ २२ ॥
ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति ।तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् ॥ २३ ॥
तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् ।हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः ॥ २४ ॥
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः ।प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् ॥ २५ ॥
एवं बहुविधा मायाः सौबलस्य कृताः कृताः ।जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा ॥ २६ ॥
तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः ।अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा ॥ २७ ॥
ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु ।अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् ॥ २८ ॥
सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी ।द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् ॥ २९ ॥
द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः ।केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना ॥ ३० ॥
नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् ।गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया ॥ ३१ ॥
शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् ।गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् ॥ ३२ ॥
ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम् ।सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् ॥ ३३ ॥
नानाविधान्यनीकानि पुत्राणां तव भारत ।अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः ॥ ३४ ॥
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् ।महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् ॥ ३५ ॥
ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् ।स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः ॥ ३६ ॥
तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः ।शलभा इव संपेतुः संवृण्वाना दिशो दश ॥ ३७ ॥
तुरगं रथिनं नागं पदातिमपि मारिष ।विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः ॥ ३८ ॥
न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः ।पृथगेकशरारुग्णा निपेतुस्ते गतासवः ॥ ३९ ॥
हतैर्मनुष्यैस्तुरगैश्च सर्वतः शराभिवृष्टैर्द्विरदैश्च पातितैः ।तदा श्वगोमायुबडाभिनादितं विचित्रमायोधशिरो बभूव ह ॥ ४० ॥
पिता सुतं त्यजति सुहृद्वरं सुहृत्तथैव पुत्रः पितरं शरातुरः ।स्वरक्षणे कृतमतयस्तदा जनास्त्यजन्ति वाहानपि पार्थपीडिताः ॥ ४१ ॥
« »