Click on words to see what they mean.

संजय उवाच ।यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् ।अप्रैषीद्धेमसंछन्नान्द्रोणानीकाय पाण्डुरान् ॥ १ ॥
तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् ।सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् ॥ २ ॥
ततः श्वेतहयः कृष्णमब्रवीदजितं जयः ।एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत ॥ ३ ॥
दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन ।द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् ॥ ४ ॥
किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् ।इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् ॥ ५ ॥
एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् ।येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् ॥ ६ ॥
ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः ।ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत ॥ ७ ॥
त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः ।साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् ॥ ८ ॥
ततो भुजगसंकाशां सुशर्मा शक्तिमायसीम् ।चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् ॥ ९ ॥
शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः ।सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत ॥ १० ॥
तं वासवमिवायान्तं भूरिवर्षशरौघिणम् ।राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् ॥ ११ ॥
ततो धनंजयो बाणैस्तत एव महारथान् ।आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः ॥ १२ ॥
तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः ।नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः ॥ १३ ॥
संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः ।सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति ॥ १४ ॥
यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् ।धनुः क्षेमकरं संख्ये द्विषतामश्रुवर्धनम् ॥ १५ ॥
तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः ।कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः ॥ १६ ॥
तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी ।व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् ॥ १७ ॥
ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् ।मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये ॥ १८ ॥
व्यपेतहृदयत्रास आपद्धर्मातिगो रथः ।आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि ॥ १९ ॥
यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः ।मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव ॥ २० ॥
तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः ।तेन नागेन सहसा धनंजयमुपाद्रवत् ॥ २१ ॥
तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् ।स संनिपातस्तुमुलो बभूव रथनागयोः ॥ २२ ॥
कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च ।संग्रामे चेरतुर्वीरौ भगदत्तधनंजयौ ॥ २३ ॥
ततो जीमूतसंकाशान्नागादिन्द्र इवाभिभूः ।अभ्यवर्षच्छरौघेण भगदत्तो धनंजयम् ॥ २४ ॥
स चापि शरवर्षं तच्छरवर्षेण वासविः ।अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् ॥ २५ ॥
ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् ।शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत ॥ २६ ॥
ततः स शरजालेन महताभ्यवकीर्य तौ ।चोदयामास तं नागं वधायाच्युतपार्थयोः ॥ २७ ॥
तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् ।चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः ॥ २८ ॥
संप्राप्तमपि नेयेष परावृत्तं महाद्विपम् ।सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनंजयः ॥ २९ ॥
स तु नागो द्विपरथान्हयांश्चारुज्य मारिष ।प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनंजयः ॥ ३० ॥
« »