Click on words to see what they mean.

धृतराष्ट्र उवाच ।तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः ।प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् ॥ १ ॥
संजय उवाच ।प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ ।मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे ॥ २ ॥
तथा हि शरवर्षाणि पातयत्यनिशं प्रभो ।भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः ॥ ३ ॥
अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः ।अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः ॥ ४ ॥
अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः ।निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः ॥ ५ ॥
तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च ।लाडयन्निव राजानं भगदत्तमयोधयत् ॥ ६ ॥
सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश ।प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् ॥ ७ ॥
ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः ।शरजालेन स बभौ व्यभ्रः पर्वतराडिव ॥ ८ ॥
ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् ।व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् ॥ ९ ॥
ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः ।विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् ॥ १० ॥
सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः ।भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः ॥ ११ ॥
व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च ।तैरर्जुनस्य समरे किरीटं परिवर्तितम् ॥ १२ ॥
परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः ।सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् ॥ १३ ॥
एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम् ।अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् ॥ १४ ॥
तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च ।त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् ॥ १५ ॥
विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् ।अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ॥ १६ ॥
विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् ।उरसा प्रतिजग्राह पार्थं संछाद्य केशवः ॥ १७ ॥
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि ।ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत ॥ १८ ॥
अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन ।इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि ॥ १९ ॥
यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे ।ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते ॥ २० ॥
सबाणः सधनुश्चाहं ससुरासुरमानवान् ।शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव ॥ २१ ॥
ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः ।शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ ॥ २२ ॥
चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः ।आत्मानं प्रविभज्येह लोकानां हितमादधे ॥ २३ ॥
एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता ।अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी ॥ २४ ॥
अपरा कुरुते कर्म मानुषं लोकमाश्रिता ।शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् ॥ २५ ॥
यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम ।वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा ॥ २६ ॥
तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा ।प्रायाचत वरं यं मां नरकार्थाय तं शृणु ॥ २७ ॥
देवानामसुराणां च अवध्यस्तनयोऽस्तु मे ।उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि ॥ २८ ॥
एवं वरमहं श्रुत्वा जगत्यास्तनये तदा ।अमोघमस्त्रमददं वैष्णवं तदहं पुरा ॥ २९ ॥
अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे ।नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति ॥ ३० ॥
अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः ।भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा ॥ ३१ ॥
तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी ।स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः ॥ ३२ ॥
तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् ।नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष ॥ ३३ ॥
तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् ।वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् ॥ ३४ ॥
वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् ।यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा ॥ ३५ ॥
एवमुक्तस्ततः पार्थः केशवेन महात्मना ।भगदत्तं शितैर्बाणैः सहसा समवाकिरत् ॥ ३६ ॥
ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः ।कुम्भयोरन्तरे नागं नाराचेन समार्पयत् ॥ ३७ ॥
समासाद्य तु तं नागं बाणो वज्र इवाचलम् ।अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः ॥ ३८ ॥
स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ ।नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः ॥ ३९ ॥
ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा ।बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः ॥ ४० ॥
स भिन्नहृदयो राजा भगदत्तः किरीटिना ।शरासनं शरांश्चैव गतासुः प्रमुमोच ह ॥ ४१ ॥
शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः ।नालताडनविभ्रष्टं पलाशं नलिनादिव ॥ ४२ ॥
स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसंनिकाशात् ।सुपुष्पितो मारुतवेगरुग्णो महीधराग्रादिव कर्णिकारः ॥ ४३ ॥
निहत्य तं नरपतिमिन्द्रविक्रमं सखायमिन्द्रस्य तथैन्द्रिराहवे ।ततोऽपरांस्तव जयकाङ्क्षिणो नरान्बभञ्ज वायुर्बलवान्द्रुमानिव ॥ ४४ ॥
« »