Click on words to see what they mean.

संजय उवाच ।महद्भैरवमासीन्नः संनिवृत्तेषु पाण्डुषु ।दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः ॥ १ ॥
तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव ।ततो हतममन्याम द्रोणं दृष्टिपथे हते ॥ २ ॥
तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः ।दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् ॥ ३ ॥
यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः ।वारयध्वं यथायोगं पाण्डवानामनीकिनीम् ॥ ४ ॥
ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव ।आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् ॥ ५ ॥
तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे ।तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् ॥ ६ ॥
त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः ।बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि ॥ ७ ॥
कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशां पते ।पर्यवारयदायान्तं शूरं समितिशोभनम् ॥ ८ ॥
तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् ।कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् ॥ ९ ॥
सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् ।उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् ॥ १० ॥
क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके ।नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् ॥ ११ ॥
अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् ।विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः ॥ १२ ॥
युयुत्सुं पाण्डवार्थाय यतमानं महारथम् ।सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् ॥ १३ ॥
सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ ।युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ ॥ १४ ॥
राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् ।वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् ॥ १५ ॥
तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् ।मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् ॥ १६ ॥
तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् ।क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः ॥ १७ ॥
तथैव राजा बाह्लीको राजानं द्रुपदं शरैः ।आद्रवन्तं सहानीकं सहानीको न्यवारयत् ॥ १८ ॥
तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः ।यथा महायूथपयोर्द्विपयोः संप्रभिन्नयोः ॥ १९ ॥
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् ।सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् ॥ २० ॥
तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् ।मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् ॥ २१ ॥
नाकुलिं तु शतानीकं भूतकर्मा सभापतिः ।अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् ॥ २२ ॥
ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः ।चक्रे विबाहुशिरसं भूतकर्माणमाहवे ॥ २३ ॥
सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् ।द्रोणायाभिमुखं वीरं विविंशतिरवारयत् ॥ २४ ॥
सुतसोमस्तु संक्रुद्धः स्वपितृव्यमजिह्मगैः ।विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः ॥ २५ ॥
अथ भीमरथः शाल्वमाशुगैरायसैः शितैः ।षड्भिः साश्वनियन्तारमनयद्यमसादनम् ॥ २६ ॥
श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः ।चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् ॥ २७ ॥
तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ ।पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् ॥ २८ ॥
तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे ।द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् ॥ २९ ॥
तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः ।सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् ॥ ३० ॥
प्रवपन्निव बीजानि बीजकाले नरर्षभ ।द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् ॥ ३१ ॥
यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः ।तं पटच्चरहन्तारं लक्ष्मणः समवारयत् ॥ ३२ ॥
स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत ।लक्ष्मणे शरजालानि विसृजन्बह्वशोभत ॥ ३३ ॥
विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् ।पर्यवारयदायान्तं युवानं समरे युवा ॥ ३४ ॥
ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् ।विधूय तद्बाणजालं बभौ तव सुतो बली ॥ ३५ ॥
अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे ।द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् ॥ ३६ ॥
स संप्रहारस्तुमुलस्तयोः पुरुषसिंहयोः ।सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः ॥ ३७ ॥
दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली ।द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् ॥ ३८ ॥
स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् ।तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् ॥ ३९ ॥
कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् ।द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् ॥ ४० ॥
ते चैनं भृशसंक्रुद्धाः शरव्रातैरवाकिरन् ।स च तांश्छादयामास शरजालैः पुनः पुनः ॥ ४१ ॥
नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः ।साश्वसूतध्वजरथाः परस्परशराचिताः ॥ ४२ ॥
पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह ।नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् ॥ ४३ ॥
तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् ।सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः ॥ ४४ ॥
क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि ।द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः ॥ ४५ ॥
तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् ।सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ ४६ ॥
राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् ।चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् ॥ ४७ ॥
तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया ।स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् ॥ ४८ ॥
वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः ।अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् ॥ ४९ ॥
युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ ।ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः ॥ ५० ॥
सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् ।पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् ॥ ५१ ॥
स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने ।पुनः पताकां सूतं च छत्रं चापातयद्रथात् ॥ ५२ ॥
अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा ।साश्वसूतध्वजरथं तं चकर्त वरासिना ॥ ५३ ॥
रथं च स्वं समास्थाय धनुरादाय चापरम् ।स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् ॥ ५४ ॥
मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः ।पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः ॥ ५५ ॥
आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् ।सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः ॥ ५६ ॥
तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः ।राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः ॥ ५७ ॥
तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः ।तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः ॥ ५८ ॥
एवं द्वंद्वशतान्यासन्रथवारणवाजिनाम् ।पदातीनां च भद्रं ते तव तेषां च संकुलम् ॥ ५९ ॥
नैतादृशो दृष्टपूर्वः संग्रामो नैव च श्रुतः ।द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् ॥ ६० ॥
इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो ।तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च ॥ ६१ ॥
« »