Click on words to see what they mean.

धृतराष्ट्र उवाच ।व्यथयेयुरिमे सेनां देवानामपि संयुगे ।आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ॥ १ ॥
संप्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः ।तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ॥ २ ॥
दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी ।अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ॥ ३ ॥
स एव महतीं सेनां समावर्तयदाहवे ।किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ॥ ४ ॥
युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः ।स तथाकृष्यते तेन न यथा स्वयमिच्छति ॥ ५ ॥
द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः ।स पुनर्भागधेयेन सहायानुपलब्धवान् ॥ ६ ॥
अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये ।चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः ॥ ७ ॥
पृथिवी भूयसी तात मम पार्थस्य नो तथा ।इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा ॥ ८ ॥
तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः ।निहतः पार्षतेनाजौ किमन्यद्भागधेयतः ॥ ९ ॥
मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् ।सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् ॥ १० ॥
समनुप्राप्तकृच्छ्रोऽहं संमोहं परमं गतः ।भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे ॥ ११ ॥
यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् ।दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह ॥ १२ ॥
नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि ।पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् ॥ १३ ॥
यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः ।सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति ॥ १४ ॥
अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य संजय ।अवशेषं न पश्यामि ककुदे मृदिते सति ॥ १५ ॥
कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः ।यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ ॥ १६ ॥
व्यक्तमेव च मे शंस यथा युद्धमवर्तत ।केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् ॥ १७ ॥
धनंजयं च मे शंस यद्यच्चक्रे रथर्षभः ।तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः ॥ १८ ॥
यथासीच्च निवृत्तेषु पाण्डवेषु च संजय ।मम सैन्यावशेषस्य संनिपातः सुदारुणः ।मामकानां च ये शूराः कांस्तत्र समवारयन् ॥ १९ ॥
« »