Click on words to see what they mean.

धृतराष्ट्र उवाच ।सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय ।ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः ॥ १ ॥
संजय उवाच ।ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् ।रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत ॥ २ ॥
दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः ।वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः ॥ ३ ॥
कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम् ।भीमवेगा नरव्याघ्रमवहन्वातरंहसः ॥ ४ ॥
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे ।अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् ॥ ५ ॥
राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् ।जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः ॥ ६ ॥
ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि ।राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत ॥ ७ ॥
तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः ।केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च ।स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः ॥ ८ ॥
ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः ।वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः ॥ ९ ॥
हारिद्रसमवर्णास्तु जवना हेममालिनः ।पुत्रं विराटराजस्य सत्वराः समुदावहन् ॥ १० ॥
इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः ।जातरूपसमाभासः सर्वे लोहितकध्वजाः ॥ ११ ॥
ते हेममालिनः शूराः सर्वे युद्धविशारदाः ।वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः ॥ १२ ॥
आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् ।दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् ॥ १३ ॥
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः ।तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः ॥ १४ ॥
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष ।आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः ॥ १५ ॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः ॥ १६ ॥
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः ।पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् ॥ १७ ॥
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः ।शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् ॥ १८ ॥
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः ।काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् ॥ १९ ॥
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः ।यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् ॥ २० ॥
सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत ।माषपुष्पसवर्णास्तमवहन्वाजिनो रणे ॥ २१ ॥
सहस्रसोमप्रतिमा बभूवुः पुरे कुरूणामुदयेन्दुनाम्नि ।तस्मिञ्जातः सोमसंक्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः ॥ २२ ॥
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः ।आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् ॥ २३ ॥
काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः ।द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् ॥ २४ ॥
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः ।ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः ॥ २५ ॥
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे ।अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे ॥ २६ ॥
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः ।तं बृहन्तो महाकाया युयुत्सुमवहन्रणे ॥ २७ ॥
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् ।ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः ॥ २८ ॥
कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः ।सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः ॥ २९ ॥
रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः ।सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् ॥ ३० ॥
रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः ।काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् ॥ ३१ ॥
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् ।तं सत्यधृतिमायान्तमरुणाः समुदावहन् ॥ ३२ ॥
यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् ।पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् ॥ ३३ ॥
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः ।श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो ॥ ३४ ॥
युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः ।भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः ॥ ३५ ॥
प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः ।नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः ॥ ३६ ॥
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः ।समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः ॥ ३७ ॥
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः ।ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः ॥ ३८ ॥
इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः ।आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः ॥ ३९ ॥
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव ।राजानं रोचमानं ते हयाः संख्ये समावहन् ॥ ४० ॥
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः ।जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन् ॥ ४१ ॥
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः ।जवे श्येनसमाश्चित्राः सुदामानमुदावहन् ॥ ४२ ॥
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः ।पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् ॥ ४३ ॥
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः ।तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ ४४ ॥
माषवर्णास्तु जवना बृहन्तो हेममालिनः ।दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् ॥ ४५ ॥
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः ।पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् ॥ ४६ ॥
बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः ।कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् ॥ ४७ ॥
शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः ।युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः ॥ ४८ ॥
एकवर्णेन सर्वेण ध्वजेन कवचेन च ।अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत ॥ ४९ ॥
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् ।अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् ॥ ५० ॥
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः ।शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः ॥ ५१ ॥
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः ।रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् ॥ ५२ ॥
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् ।तं पटच्चरहन्तारं शुकवर्णावहन्हयाः ॥ ५३ ॥
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् ।ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः ॥ ५४ ॥
एकवर्णेन सर्वेण ध्वजेन कवचेन च ।धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत ॥ ५५ ॥
नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः ।वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत ॥ ५६ ॥
ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः ।ते रोचमानस्य सुतं हेमवर्णमुदावहन् ॥ ५७ ॥
योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः ।श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् ॥ ५८ ॥
आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् ।अवहन्रथमुख्यानामयुतानि चतुर्दश ॥ ५९ ॥
नानारूपेण वर्णेन नानाकृतिमुखा हयाः ।रथचक्रध्वजं वीरं घटोत्कचमुदावहन् ॥ ६० ॥
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् ।राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः ।वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः ॥ ६१ ॥
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः ।प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः ॥ ६२ ॥
अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् ।सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत ॥ ६३ ॥
« »