Click on words to see what they mean.

संजय उवाच ।ततः संशप्तका राजन्समे देशे व्यवस्थिताः ।व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः ॥ १ ॥
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष ।उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥ २ ॥
स शब्दः प्रदिशः सर्वा दिशः खं च समावृणोत् ।आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः ॥ ३ ॥
अतीव संप्रहृष्टांस्तानुपलभ्य धनंजयः ।किंचिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥ ४ ॥
पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे ।भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् ॥ ५ ॥
अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् ।कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् ॥ ६ ॥
एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः ।आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् ॥ ७ ॥
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् ।दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः ॥ ८ ॥
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी ।निश्चेष्टावस्थिता संक्ये अश्मसारमयी यथा ॥ ९ ॥
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः ।विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ॥ १० ॥
उपलभ्य च ते संज्ञामवस्थाप्य च वाहिनीम् ।युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥ ११ ॥
तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः ।अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः ॥ १२ ॥
ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः ।प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥ १३ ॥
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः ।स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥ १४ ॥
भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् ।आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥ १५ ॥
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति ।भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने ॥ १६ ॥
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः ।अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥ १७ ॥
तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः ।शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ १८ ॥
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः ।चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥ १९ ॥
ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् ।सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् ॥ २० ॥
तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः ।प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् ॥ २१ ॥
सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः ।अथास्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ २२ ॥
तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः ।व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् ॥ २३ ॥
ततो जघान संक्रुद्धो वासविस्तां महाचमूम् ।शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥ २४ ॥
ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः ।सव्यसाचिनि संक्रुद्धे त्रैगर्तान्भयमाविशत् ॥ २५ ॥
ते वध्यमानाः पार्थेन शरैः संनतपर्वभिः ।अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव ॥ २६ ॥
ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् ।अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥ २७ ॥
शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः ।गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः ॥ २८ ॥
नावहास्याः कथं लोके कर्मणानेन संयुगे ।भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥ २९ ॥
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः ।शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥ ३० ॥
ततस्ते संन्यवर्तन्त संशप्तकगणाः पुनः ।नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम् ॥ ३१ ॥
« »