Click on words to see what they mean.

संजय उवाच ।दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः ।वासुदेवं महात्मानमर्जुनः समभाषत ॥ १ ॥
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति ।नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥ २ ॥
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ ३ ॥
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् ।प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥ ४ ॥
बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा ।उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ ५ ॥
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च ।यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥ ६ ॥
अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥ ७ ॥
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥ ८ ॥
क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः ।गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥ ९ ॥
बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ १० ॥
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥ ११ ॥
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ १२ ॥
अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ ।इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥ १३ ॥
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ।अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ १४ ॥
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥ १५ ॥
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ १६ ॥
ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः ।व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥ १७ ॥
ततो नैवार्जुनस्तत्र न रथो न च केशवः ।प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ १८ ॥
ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः ।हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥ १९ ॥
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ २० ॥
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥ २१ ॥
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः ।वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ २२ ॥
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् ।उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥ २३ ॥
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना ।प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ २४ ॥
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः ।जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ २५ ॥
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् ।हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥ २६ ॥
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् ।नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः ॥ २७ ॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ २८ ॥
मुण्डतालवनानीव तत्र तत्र चकाशिरे ।छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥ २९ ॥
सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः ।पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ ३० ॥
चामरापीडकवचाः स्रस्तान्त्रनयनासवः ।सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥ ३१ ॥
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः ।पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ॥ ३२ ॥
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ॥ ३३ ॥
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः ।मही चाप्यभवद्दुर्गा कबन्धशतसंकुला ॥ ३४ ॥
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे ।आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥ ३५ ॥
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः ।तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥ ३६ ॥
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः ॥ ३७ ॥
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि ।व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥ ३८ ॥
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः ।युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥ ३९ ॥
« »