Click on words to see what they mean.

संजय उवाच ।ते सेने शिबिरं गत्वा न्यविशेतां विशां पते ।यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥ १ ॥
कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः ।दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥ २ ॥
उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये ।शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः ॥ ३ ॥
इति तद्वः प्रयततां कृतं पार्थेन संयुगे ।मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥ ४ ॥
अपनीते तु योगेन केनचिच्छ्वेतवाहने ।तत एष्यति ते राजन्वशमद्य युधिष्ठिरः ॥ ५ ॥
कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु ।तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन ॥ ६ ॥
एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप ।ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥ ७ ॥
अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् ।मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् ॥ ८ ॥
एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् ।समानेष्यामि सगणं वशमद्य न संशयः ॥ ९ ॥
यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः ।अथापयाति संग्रामाद्विजयात्तद्विशिष्यते ॥ १० ॥
द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः ।भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥ ११ ॥
वयं विनिकृता राजन्सदा गाण्डीवधन्वना ।अनागःस्वपि चागस्कृदस्मासु भरतर्षभ ॥ १२ ॥
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् ।क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः ॥ १३ ॥
स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः ।कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् ॥ १४ ॥
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् ।वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥ १५ ॥
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः ।सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ॥ १६ ॥
एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत ।सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च ॥ १७ ॥
सहिता भ्रातरः पञ्च रथानामयुतेन च ।न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥ १८ ॥
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः ।सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ॥ १९ ॥
माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि ।रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह ॥ २० ॥
नानाजनपदेभ्यश्च रथानामयुतं पुनः ।समुत्थितं विशिष्टानां संशपार्थमुपागतम् ॥ २१ ॥
ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् ।जगृहुः कुशचीराणि चित्राणि कवचानि च ॥ २२ ॥
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः ।मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥ २३ ॥
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः ।योक्ष्यमाणास्तदात्मानं यशसा विजयेन च ॥ २४ ॥
ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः ।प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥ २५ ॥
ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् ।गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥ २६ ॥
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् ।तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥ २७ ॥
शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे ।धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे ॥ २८ ॥
ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् ।पानपस्य च ये लोका गुरुदाररतस्य च ॥ २९ ॥
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः ।शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥ ३० ॥
अगारदाहिनां ये च ये च गां निघ्नतामपि ।अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि ॥ ३१ ॥
जायां च ऋतुकाले वै ये मोहादभिगच्छताम् ।श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम् ॥ ३२ ॥
न्यासापहारिणां ये च श्रुतं नाशयतां च ये ।कोपेन युध्यमानानां ये च नीचानुसारिणाम् ॥ ३३ ॥
नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् ।तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥ ३४ ॥
यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम् ।तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः ॥ ३५ ॥
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे ।इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः ॥ ३६ ॥
एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे ।आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥ ३७ ॥
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरंजयः ।धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥ ३८ ॥
आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः ॥ ३९ ॥
एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे ।वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ॥ ४० ॥
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ ।सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥ ४१ ॥
युधिष्ठिर उवाच ।श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् ।यथा तदनृतं तस्य भवेत्तद्वत्समाचर ॥ ४२ ॥
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः ।प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥ ४३ ॥
अर्जुन उवाच ।अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि ।ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥ ४४ ॥
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो ।सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन ॥ ४५ ॥
संजय उवाच ।अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः ।प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः ॥ ४६ ॥
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली ।क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥ ४७ ॥
ततो दौर्योधनं सैन्यं मुदा परमया युतम् ।गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥ ४८ ॥
ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा ।गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके ॥ ४९ ॥
« »