Click on words to see what they mean.

संजय उवाच ।त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत ।कुरूणां पाण्डवानां च संहृष्टानां विशां पते ॥ १ ॥
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः ।अरुणोऽभ्युदयां चक्रे ताम्रीकुर्वन्निवाम्बरम् ॥ २ ॥
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् ।अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥ ३ ॥
द्वैधीभूतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् ।सपत्नान्सव्यतः कुर्मि सव्यसाचिन्निमान्कुरून् ॥ ४ ॥
स माधवमनुज्ञाय कुरुष्वेति धनंजयः ।द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥ ५ ॥
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरंजयः ।आजिशीर्षगतं दृष्ट्वा भीमसेनं समासदत् ॥ ६ ॥
भीम उवाच ।अर्जुनार्जुन बीभत्सो शृणु मे तत्त्वतो वचः ।यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७ ॥
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे ।असंभावितरूपः सन्नानृशंस्यं करिष्यसि ॥ ८ ॥
सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि ।भिन्ध्यनीकं युधां श्रेष्ठ सव्यसाचिन्निमान्कुरु ॥ ९ ॥
संजय उवाच ।स सव्यसाची भीमेन चोदितः केशवेन च ।कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥ १० ॥
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् ।पराक्रान्तं पराक्रम्य यतन्तः क्षत्रियर्षभाः ।नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥ ११ ॥
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।अभ्यवर्षञ्शरव्रातैः कुन्तीपुत्रं धनंजयम् ॥ १२ ॥
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः ।कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥ १३ ॥
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनंजयः ।सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥ १४ ॥
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च ।तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥ १५ ॥
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथा गते ।सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ॥ १६ ॥
नैव ते न वयं राजन्प्रज्ञासिष्म परस्परम् ।उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥ १७ ॥
विरथा रथिनो राजन्समासाद्य परस्परम् ।केशेषु समसज्जन्त कवचेषु भुजेषु च ॥ १८ ॥
हताश्वा हतसूताश्च निश्चेष्टा रथिनस्तदा ।जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥ १९ ॥
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः ।गतसत्त्वा व्यदृश्यन्त तथैव सह सादिभिः ॥ २० ॥
ततस्त्वभ्यवसृत्यैव संग्रामादुत्तरां दिशम् ।अतिष्ठदाहवे द्रोणो विधूम इव पावकः ॥ २१ ॥
तमाजिशीर्षादेकान्तमपक्रान्तं निशाम्य तु ।समकम्पन्त सैन्यानि पाण्डवानां विशां पते ॥ २२ ॥
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा ।द्रोणं दृष्ट्वारयस्त्रेसुश्चेलुर्मम्लुश्च मारिष ॥ २३ ॥
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् ।नैनं शशंसिरे जेतुं दानवा वासवं यथा ॥ २४ ॥
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः ।विस्मिताश्चाभवन्केचित्केचिदासन्नमर्षिताः ॥ २५ ॥
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः ।अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ॥ २६ ॥
व्याक्षिपन्नायुधानन्ये ममृदुश्चापरे भुजान् ।अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥ २७ ॥
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः ।समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥ २८ ॥
ततो विराटद्रुपदौ द्रोणं प्रतिययू रणे ।तथा चरन्तं संग्रामे भृशं समरदुर्जयम् ॥ २९ ॥
द्रुपदस्य ततः पौत्रास्त्रय एव विशां पते ।चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥ ३० ॥
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः ।त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥ ३१ ॥
ततो द्रोणोऽजयद्युद्धे चेदिकेकयसृञ्जयान् ।मत्स्यांश्चैवाजयत्सर्वान्भारद्वाजो महारथः ॥ ३२ ॥
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवाकिरत् ।द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥ ३३ ॥
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः ।द्रुपदं च विराटं च प्रैषीद्वैवस्वतक्षयम् ॥ ३४ ॥
हते विराटे द्रुपदे केकयेषु तथैव च ।तथैव चेदिमत्स्येषु पाञ्चालेषु तथैव च ।हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ॥ ३५ ॥
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः ।शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥ ३६ ॥
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु ।द्रोणो यस्याद्य मुच्येत यो वा द्रोणात्पराङ्मुखः ॥ ३७ ॥
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् ।आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ।पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्पाण्डवान्यतः ॥ ३८ ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥ ३९ ॥
रक्ष्यमाणं तथा द्रोणं समरे तैर्महात्मभिः ।यतमानापि पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥ ४० ॥
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष ।स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभ ॥ ४१ ॥
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः ।कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥ ४२ ॥
पितृपुत्रवधं प्राप्य पुमान्कः परिहापयेत् ।विशेषतस्तु शपथं शपित्वा राजसंसदि ॥ ४३ ॥
एष वैश्वानर इव समिद्धः स्वेन तेजसा ।शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥ ४४ ॥
पुरा करोति निःशेषां पाण्डवानामनीकिनीम् ।स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥ ४५ ॥
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः ।दृढैः पूर्णायतोत्सृष्टैर्द्रावयंस्तव वाहिनीम् ॥ ४६ ॥
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् ।आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥ ४७ ॥
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् ।यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥ ४८ ॥
संसक्तानि व्यदृश्यन्त रथवृन्दानि मारिष ।हतानि च विकीर्णानि शरीराणि शरीरिणाम् ॥ ४९ ॥
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः ।विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतोऽपरे ॥ ५० ॥
तथा संसक्तयुद्धं तदभवद्भृशदारुणम् ।अथ संध्यागतः सूर्यः क्षणेन समपद्यत ॥ ५१ ॥
« »