Click on words to see what they mean.

संजय उवाच ।ते तथैव महाराज दंशिता रणमूर्धनि ।संध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥ १ ॥
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे ।प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥ २ ॥
द्वंद्वानि यानि तत्रासन्संसक्तानि पुरोदयात् ।तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥ ३ ॥
रथैर्हया हयैर्नागाः पादाताश्चापि कुञ्जरैः ।हया हयैः समाजग्मुः पादाताश्च पदातिभिः ।संसक्ताश्च वियुक्ताश्च योधाः संन्यपतन्रणे ॥ ४ ॥
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् ॥ ५ ॥
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् ।विस्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥ ६ ॥
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ ।द्रवतां च पदातीनां शस्त्राणां विनिपात्यताम् ॥ ७ ॥
हयानां हेषतां चैव रथानां च निवर्तताम् ।क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥ ८ ॥
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महास्वनः ।नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥ ९ ॥
भूमावश्रूयत महांस्तदासीत्कृपणं महत् ।पततां पतितानां च पत्त्यश्वरथहस्तिनाम् ॥ १० ॥
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः ।स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वे परांश्च परान्परे ॥ ११ ॥
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च ।असयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥ १२ ॥
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः ।स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥ १३ ॥
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वधैः ।निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥ १४ ॥
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् ।शस्त्रमत्स्यसुसंपूर्णां मांसशोणितकर्दमाम् ॥ १५ ॥
आर्तनादस्वनवतीं पताकावस्त्रफेनिलाम् ।नदीं प्रावर्तयन्वीराः परलोकप्रवाहिनीम् ॥ १६ ॥
शरशक्त्यर्दिताः क्लान्ता रात्रिमूढाल्पचेतसः ।विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ।संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ॥ १७ ॥
युद्धोपकरणैश्चान्यैस्तत्र तत्र प्रकाशितैः ।क्रव्यादसंघैराकीर्णं मृतैरर्धमृतैरपि ।नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥ १८ ॥
मज्जत्सु चक्रेषु रथान्सत्त्वमास्थाय वाजिनः ।कथंचिदवहञ्श्रान्ता वेपमानाः शरार्दिताः ।कुलसत्त्वबलोपेता वाजिनो वारणोपमाः ॥ १९ ॥
विह्वलं तत्समुद्भ्रान्तं सभयं भारतातुरम् ।बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥ २० ॥
तावेवास्तां निलयनं तावार्तायनमेव च ।तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥ २१ ॥
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् ।पाञ्चालानां च संसक्तं न प्राज्ञायत किंचन ॥ २२ ॥
अन्तकाक्रीडसदृशे भीरूणां भयवर्धने ।पृथिव्यां राजवंशानामुत्थिते महति क्षये ॥ २३ ॥
न तत्र कर्णं न द्रोणं नार्जुनं न युधिष्ठिरम् ।न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥ २४ ॥
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ ।न कृपं मद्रराजं वा कृतवर्माणमेव च ॥ २५ ॥
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा ।पश्याम राजन्संसक्तान्सैन्येन रजसावृतान् ॥ २६ ॥
संभ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते ।द्वितीयामिव संप्राप्ताममन्यन्त निशां तदा ॥ २७ ॥
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः ।न दिशो न दिवं नोर्वीं न समं विषमं तथा ॥ २८ ॥
हस्तसंस्पर्शमापन्नान्परान्वाप्यथ वा स्वकान् ।न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥ २९ ॥
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च ।प्रशशाम रजो भौमं शीघ्रत्वादनिलस्य च ॥ ३० ॥
तत्र नागा हया योधा रथिनोऽथ पदातयः ।पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥ ३१ ॥
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा ।पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥ ३२ ॥
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत ।वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥ ३३ ॥
तद्घोरं महदाश्चर्यं सर्वे प्रैक्षन्समन्ततः ।रथर्षभाणामुग्राणां संनिपातममानुषम् ॥ ३४ ॥
रथमार्गैर्विचित्रैश्च विचित्ररथसंकुलम् ।अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥ ३५ ॥
यतमानाः पराक्रान्ताः परस्परजिगीषवः ।जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥ ३६ ॥
ते रथान्सूर्यसंकाशानास्थिताः पुरुषर्षभाः ।अशोभन्त यथा मेघाः शारदाः समुपस्थिताः ॥ ३७ ॥
स्पर्धिनस्ते महेष्वासाः कृतयत्ना धनुर्धराः ।अभ्यगच्छंस्तथान्योन्यं मत्ता गजवृषा इव ॥ ३८ ॥
न नूनं देहभेदोऽस्ति काले तस्मिन्समागते ।यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥ ३९ ॥
बाहुभिश्चरणैश्छिन्नैः शिरोभिश्चारुकुण्डलैः ।कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टिशैः ॥ ४० ॥
नालीकक्षुरनाराचैर्नखरैः शक्तितोमरैः ।अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥ ४१ ॥
चित्रैश्च विविधाकारैः शरीरावरणैरपि ।विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥ ४२ ॥
शून्यैश्च नगराकारैर्हतयोधध्वजै रथैः ।अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥ ४३ ॥
वातायमानैरसकृद्धतवीरैरलंकृतैः ।व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥ ४४ ॥
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च सुसुगन्धिभिः ।हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥ ४५ ॥
उरस्यैर्मणिभिर्निष्कैश्चूडामणिभिरेव च ।आसीदायोधनं तत्र नभस्तारागणैरिव ॥ ४६ ॥
ततो दुर्योधनस्यासीन्नकुलेन समागमः ।अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥ ४७ ॥
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् ।किरञ्शरशतैर्हृष्टस्तत्र नादो महानभूत् ॥ ४८ ॥
अपसव्यं कृतः संख्ये भ्रातृव्येनात्यमर्षिणा ।सोऽमर्षितस्तमप्याजौ प्रतिचक्रेऽपसव्यतः ॥ ४९ ॥
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् ।न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥ ५० ॥
सर्वतो विनिवार्यैनं शरजालेन पीडयन् ।विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥ ५१ ॥
तिष्ठ तिष्ठेति नकुलो बभाषे तनयं तव ।संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितेन च ॥ ५२ ॥
« »