Click on words to see what they mean.

धृतराष्ट्र उवाच ।एकवीरवधे मोघा शक्तिः सूतात्मजे यदा ।कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥ १ ॥
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः ।एकवीरवधे कस्मान्न युद्धे जयमादधत् ॥ २ ॥
आहूतो न निवर्तेयमिति तस्य महाव्रतम् ।स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥ ३ ॥
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया ।न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय ॥ ४ ॥
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः ।शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥ ५ ॥
या ह्यस्य परमा शक्तिर्जयस्य च परायणम् ।सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥ ६ ॥
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा ।तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥ ७ ॥
यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः ।मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥ ८ ॥
घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम् ।वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥ ९ ॥
इति प्राज्ञः प्रज्ञयैतद्विचार्य घटोत्कचं सूतपुत्रेण युद्धे ।अयोधयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च ॥ १० ॥
संजय उवाच ।एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप ।नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥ ११ ॥
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः ।अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥ १२ ॥
तदैव कृतकार्या हि वयं स्याम कुरूद्वह ।न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥ १३ ॥
साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि ।विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥ १४ ॥
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव ।जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥ १५ ॥
सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् ।हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥ १६ ॥
धृतराष्ट्र उवाच ।विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः ।यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥ १७ ॥
तवापि समतिक्रान्तमेतद्गावल्गणे कथम् ।एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥ १८ ॥
संजय उवाच ।दुर्योधनस्य शकुनेर्मम दुःशासनस्य च ।रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना ॥ १९ ॥
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम् ।प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥ २० ॥
अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः ।स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥ २१ ॥
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः ।शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः ॥ २२ ॥
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः ।कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥ २३ ॥
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज ।कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥ २४ ॥
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् ।कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥ २५ ॥
यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा ।ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत ॥ २६ ॥
सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे ।अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥ २७ ॥
अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः ।न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥ २८ ॥
अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः ।अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥ २९ ॥
ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः ।पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥ ३० ॥
अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम ।किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥ ३१ ॥
वासुदेव उवाच ।दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः ।सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥ ३२ ॥
कर्ण कर्ण महेष्वास रणेऽमितपराक्रम ।नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥ ३३ ॥
ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात् ।स हि तेषामतियशा देवानामिव वासवः ॥ ३४ ॥
तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह ।भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥ ३५ ॥
तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव ।हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥ ३६ ॥
अहमेव तु राधेयं मोहयामि युधां वर ।यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥ ३७ ॥
फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः ।न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥ ३८ ॥
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव ।मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् ॥ ३९ ॥
न पिता न च मे माता न यूयं भ्रातरस्तथा ।न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥ ४० ॥
त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम् ।नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् ॥ ४१ ॥
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् ।मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् ॥ ४२ ॥
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः ।न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥ ४३ ॥
संजय उवाच ।इति सात्यकये प्राह तदा देवकिनन्दनः ।धनंजयहिते युक्तस्तत्प्रिये सततं रतः ॥ ४४ ॥
« »