Click on words to see what they mean.

धृतराष्ट्र उवाच ।कर्णदुर्योधनादीनां शकुनेः सौबलस्य च ।अपनीतं महत्तात तव चैव विशेषतः ॥ १ ॥
यदाजानीत तां शक्तिमेकघ्नीं सततं रणे ।अनिवार्यामसह्यां च देवैरपि सवासवैः ॥ २ ॥
सा किमर्थं न कर्णेन प्रवृत्ते समरे पुरा ।न देवकीसुते मुक्ता फल्गुने वापि संजय ॥ ३ ॥
संजय उवाच ।संग्रामाद्विनिवृत्तानां सर्वेषां नो विशां पते ।रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥ ४ ॥
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा ।शक्तिरेषा विमोक्तव्या कर्ण कर्णेति नित्यशः ॥ ५ ॥
ततः प्रभातसमये राजन्कर्णस्य दैवतैः ।अन्येषां चैव योधानां सा बुद्धिर्नश्यते पुनः ॥ ६ ॥
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया ।न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥ ७ ॥
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता ।दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥ ८ ॥
कृष्णे वा देवकीपुत्रे मोहितो देवमायया ।पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥ ९ ॥
धृतराष्ट्र उवाच ।दैवेनैव हता यूयं स्वबुद्ध्या केशवस्य च ।गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥ १० ॥
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः ।अनेन दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥ ११ ॥
भूय एव तु मे शंस यथा युद्धमवर्तत ।कुरूणां पाण्डवानां च हैडिम्बे निहते तदा ॥ १२ ॥
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः ।सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥ १३ ॥
सौमदत्तेर्वधाद्द्रोणमायस्तं सैन्धवस्य च ।अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ १४ ॥
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥ १५ ॥
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः ।द्रौणिकर्णकृपास्तात तेऽप्यकुर्वन्किमाहवे ॥ १६ ॥
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ ।समार्छन्मामका युद्धे कथं संजय शंस मे ॥ १७ ॥
सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।अमर्षिताः सुसंक्रुद्धा रणं चक्रुः कथं निशि ॥ १८ ॥
संजय उवाच ।हते घटोत्कचे राजन्कर्णेन निशि राक्षसे ।प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥ १९ ॥
आपतत्सु च वेगेन वध्यमाने बलेऽपि च ।विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥ २० ॥
अब्रवीच्च महाबाहुर्भीमसेनं परंतपः ।आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ।हैडिम्बस्याभिघातेन मोहो मामाविशन्महान् ॥ २१ ॥
एवं भीमं समादिश्य स्वरथे समुपाविशत् ।अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनः पुनः ।कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ॥ २२ ॥
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् ।मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते ।वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥ २३ ॥
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो ।त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥ २४ ॥
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः ।विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥ २५ ॥
विदिता ते महाबाहो धर्माणां परमा गतिः ।ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥ २६ ॥
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना ।बालेनापि सता तेन कृतं साह्यं जनार्दन ॥ २७ ॥
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् ।असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ।उषितश्च सहास्माभिर्यावन्नासीद्धनंजयः ॥ २८ ॥
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः ।पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥ २९ ॥
आरम्भाच्चैव युद्धानां यदेष कृतवान्प्रभो ।मदर्थं दुष्करं कर्म कृतं तेन महात्मना ॥ ३० ॥
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन ।सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥ ३१ ॥
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे ।येन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ॥ ३२ ॥
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः ।द्रोणकर्णौ च संयत्तौ पश्य युद्धे महारथौ ॥ ३३ ॥
निशीथे पाण्डवं सैन्यमाभ्यां पश्य प्रमर्दितम् ।गजाभ्यामिव मत्ताभ्यां यथा नडवनं महत् ॥ ३४ ॥
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव ।चित्रास्त्रतां च पार्थस्य विक्रमन्ते स्म कौरवाः ॥ ३५ ॥
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः ।निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥ ३६ ॥
कथमस्मासु जीवत्सु त्वयि चैव जनार्दन ।हैडिम्बः प्राप्तवान्मृत्युं सूतपुत्रेण संगतः ॥ ३७ ॥
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः ।निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥ ३८ ॥
यदाभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः ।नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥ ३९ ॥
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना ।निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥ ४० ॥
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् ।व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ॥ ४१ ॥
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् ।अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी ।तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥ ४२ ॥
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना ।सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥ ४३ ॥
यदि शत्रुवधे न्याय्यो भवेत्कर्तुं च पाण्डवैः ।द्रोणकर्णौ रणे पूर्वं हन्तव्याविति मे मतिः ॥ ४४ ॥
एतौ मूलं हि दुःखानामस्माकं पुरुषर्षभ ।एतौ रणे समासाद्य पराश्वस्तः सुयोधनः ॥ ४५ ॥
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः ।तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥ ४६ ॥
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः ।ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ।भीमसेनो महाबाहुर्द्रोणानीकेन संगतः ॥ ४७ ॥
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः ।स विस्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥ ४८ ॥
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः ।वाजिभिः पञ्चसाहस्रैस्त्रिसाहस्रैः प्रभद्रकैः ।वृतः शिखण्डी त्वरितो राजानं पृष्ठतोऽन्वयात् ॥ ४९ ॥
ततो भेरीः समाजघ्नुः शङ्खान्दध्मुश्च दंशिताः ।पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥ ५० ॥
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनंजयम् ।एष प्रयाति त्वरितो क्रोधाविष्टो युधिष्ठिरः ।जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥ ५१ ॥
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् ।दूरं च यातं राजानमन्वगच्छज्जनार्दनः ॥ ५२ ॥
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया ।शोकोपहतसंकल्पं दह्यमानमिवाग्निना ।अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥ ५३ ॥
कर्णमासाद्य संग्रामे दिष्ट्या जीवति फल्गुनः ।सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः ॥ ५४ ॥
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तं भरतर्षभ ।सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः ॥ ५५ ॥
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः ।वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर ॥ ५६ ॥
ततो भवेत्ते व्यसनं घोरं भरतसत्तम ।दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद ॥ ५७ ॥
वासवीं कारणं कृत्वा कालेनापहतो ह्यसौ ।तवैव कारणाद्रक्षो निहतं तात संयुगे ॥ ५८ ॥
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः ।प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर ॥ ५९ ॥
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः ।कौरवान्समरे राजन्नभियुध्यस्व भारत ।पञ्चमे दिवसे चैव पृथिवी ते भविष्यति ॥ ६० ॥
नित्यं च पुरुषव्याघ्र धर्ममेव विचिन्तय ।आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥ ६१ ॥
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः ।इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥ ६२ ॥
« »