Click on words to see what they mean.

संजय उवाच ।निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः ।ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ॥ १ ॥
तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् ।तावकानां महाराज भयमासीत्सुदारुणम् ॥ २ ॥
अलायुधविषक्तं तु भैमसेनिं महाबलम् ।दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥ ३ ॥
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ ।दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥ ४ ॥
ततः परमनाराचैर्युधामन्यूत्तमौजसौ ।सात्यकिं च रथोदारं कम्पयामास मार्गणैः ॥ ५ ॥
तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् ।मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥ ६ ॥
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह ।मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥ ७ ॥
ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तडिन्मण्डलकेतुशृङ्गः ।शरौघवर्षाकुलवृष्टिमांश्च संग्राममेघः स बभूव राजन् ॥ ८ ॥
तदुद्धतं शैल इवाप्रकम्प्यो वर्षं महच्छैलसमानसारः ।विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी ॥ ९ ॥
ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खैः ।शत्रून्व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते ॥ १० ॥
संछिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैरर्दितभिन्नदेहाः ।केचिद्विसूता विहयाश्च केचिद्वैकर्तनेनाशु कृता बभूवुः ॥ ११ ॥
अविन्दमानास्त्वथ शर्म संख्ये यौधिष्ठिरं ते बलमन्वपद्यन् ।तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे ॥ १२ ॥
आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंह इवोन्ननाद ।वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः ॥ १३ ॥
तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डैश्च सवत्सदन्तैः ।वराहकर्णैः सविषाणशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम् ॥ १४ ॥
तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज ।सुवर्णपुङ्खज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव स्रजाभिः ॥ १५ ॥
समं हि तावप्रतिमप्रभावावन्योन्यमाजघ्नतुरुत्तमास्त्रैः ।तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम् ॥ १६ ॥
अतीव तच्चित्रमतीव रूपं बभूव युद्धं रविभीमसून्वोः ।समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रतप्तम् ॥ १७ ॥
घटोत्कचो यदा कर्णं न विशेषयते नृप ।तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ॥ १८ ॥
तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः ।सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ॥ १९ ॥
धृतराष्ट्र उवाच ।तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे ।मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय ॥ २० ॥
संजय उवाच ।अन्तर्हितं राक्षसं तं विदित्वा संप्राक्रोशन्कुरवः सर्व एव ।कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः ॥ २१ ॥
ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशो व्यावृणोद्बाणजालैः ।न वै किंचिद्व्यापतत्तत्र भूतं तमोभूते सायकैरन्तरिक्षे ॥ २२ ॥
न चाददानो न च संदधानो न चेषुधी स्पृशमानः कराग्रैः ।अदृश्यद्वै लाघवात्सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥ २३ ॥
ततो मायां विहितामन्तरिक्षे घोरां भीमां दारुणां राक्षसेन ।संपश्यामो लोहिताभ्रप्रकाशां देदीप्यन्तीमग्निशिखामिवोग्राम् ॥ २४ ॥
ततस्तस्या विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र ।घोषश्चान्यः प्रादुरासीत्सुघोरः सहस्रशो नदतां दुन्दुभीनाम् ॥ २५ ॥
ततः शराः प्रापतन्रुक्मपुङ्खाः शक्त्यः प्रासा मुसलान्यायुधानि ।परश्वधास्तैलधौताश्च खड्गाः प्रदीप्ताग्राः पट्टिशास्तोमराश्च ॥ २६ ॥
मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः ।गुर्व्यो गदा हेमपट्टावनद्धाः शतघ्न्यश्च प्रादुरासन्समन्तात् ॥ २७ ॥
महाशिलाश्चापतंस्तत्र तत्र सहस्रशः साशनयः सवज्राः ।चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥ २८ ॥
तां शक्तिपाषाणपरश्वधानां प्रासासिवज्राशनिमुद्गराणाम् ।वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौघैर्न शशाक हन्तुम् ॥ २९ ॥
शराहतानां पततां हयानां वज्राहतानां पततां गजानाम् ।शिलाहतानां च महारथानां महान्निनादः पततां बभूव ॥ ३० ॥
सुभीमनानाविधशस्त्रपातैर्घटोत्कचेनाभिहतं समन्तात् ।दौर्योधनं तद्बलमार्तरूपमावर्तमानं ददृशे भ्रमन्तम् ॥ ३१ ॥
हाहाकृतं संपरिवर्तमानं संलीयमानं च विषण्णरूपम् ।ते त्वार्यभावात्पुरुषप्रवीराः पराङ्मुखा न बभूवुस्तदानीम् ॥ ३२ ॥
तां राक्षसीं घोरतरां सुभीमां वृष्टिं महाशस्त्रमयीं पतन्तीम् ।दृष्ट्वा बलौघांश्च निपात्यमानान्महद्भयं तव पुत्रान्विवेश ॥ ३३ ॥
शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशो नदन्त्यः ।रक्षोगणान्नर्दतश्चाभिवीक्ष्य नरेन्द्रयोधा व्यथिता बभूवुः ॥ ३४ ॥
ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः ।नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ॥ ३५ ॥
तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीप्तैः ।वज्रैः पिनाकैरशनिप्रहारैश्चक्रैः शतघ्न्युन्मथिताश्च पेतुः ॥ ३६ ॥
हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः स्थूणाश्च कार्ष्णायसपट्टनद्धाः ।अवाकिरंस्तव पुत्रस्य सैन्यं तथा रौद्रं कश्मलं प्रादुरासीत् ॥ ३७ ॥
निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः संभग्नाङ्गाः शेरते तत्र शूराः ।भिन्ना हयाः कुञ्जराश्चावभग्नाः संचूर्णिताश्चैव रथाः शिलाभिः ॥ ३८ ॥
एवं महच्छस्त्रवर्षं सृजन्तस्ते यातुधाना भुवि घोररूपाः ।मायाः सृष्टास्तत्र घटोत्कचेन नामुञ्चन्वै याचमानं न भीतम् ॥ ३९ ॥
तस्मिन्घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे ।ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव ॥ ४० ॥
पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे ।तथा तेषां मज्जतां भारतानां न स्म द्वीपस्तत्र कश्चिद्बभूव ॥ ४१ ॥
तस्मिन्संक्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम् ।अनीकानां प्रविभागेऽप्रकाशे न ज्ञायन्ते कुरवो नेतरे वा ॥ ४२ ॥
निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः ।तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं चैकं तत्र राजन्नपश्यम् ॥ ४३ ॥
ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन्राक्षसस्य ।ह्रीमान्कुर्वन्दुष्करमार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः ॥ ४४ ॥
ततो भीताः समुदैक्षन्त कर्णं राजन्सर्वे सैन्धवा बाह्लिकाश्च ।असंमोहं पूजयन्तोऽस्य संख्ये संपश्यन्तो विजयं राक्षसस्य ॥ ४५ ॥
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान ।ते जानुभिर्जगतीमन्वपद्यन्गतासवो निर्दशनाक्षिजिह्वाः ॥ ४६ ॥
ततो हताश्वादवरुह्य वाहादन्तर्मनाः कुरुषु प्राद्रवत्सु ।दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम् ॥ ४७ ॥
ततोऽब्रुवन्कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम् ।शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥ ४८ ॥
करिष्यतः किं च नो भीमपार्थौ तपन्तमेनं जहि रक्षो निशीथे ।यो नः संग्रामाद्घोररूपाद्विमुच्येत्स नः पार्थान्समरे योधयेत ॥ ४९ ॥
तस्मादेनं राक्षसं घोररूपं जहि शक्त्या दत्तया वासवेन ।मा कौरवाः सर्व एवेन्द्रकल्पा रात्रीमुखे कर्ण नेशुः सयोधाः ॥ ५० ॥
स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजन्नश्यमानं बलं च ।महच्च श्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः ॥ ५१ ॥
स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयत्प्रतिघातं रणे तम् ।शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन् ॥ ५२ ॥
यासौ राजन्निहिता वर्षपूगान्वधायाजौ सत्कृता फल्गुनस्य ।यां वै प्रादात्सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥ ५३ ॥
तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव रात्रिम् ।मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्तनः प्राहिणोद्राक्षसाय ॥ ५४ ॥
तामुत्तमां परकायापहन्त्रीं दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् ।भीतं रक्षो विप्रदुद्राव राजन्कृत्वात्मानं विन्ध्यपादप्रमाणम् ॥ ५५ ॥
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र ।ववुर्वातास्तुमुलाश्चापि राजन्सनिर्घाता चाशनिर्गां जगाम ॥ ५६ ॥
सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य ।ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविशन्ती ॥ ५७ ॥
युद्ध्वा चित्रैर्विविधैः शस्त्रपूगैर्दिव्यैर्वीरो मानुषै राक्षसैश्च ।नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥ ५८ ॥
इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय ।तस्मिन्काले शक्तिनिर्भिन्नमर्मा बभौ राजन्मेघशैलप्रकाशः ॥ ५९ ॥
ततोऽन्तरिक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः ।अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम् ॥ ६० ॥
स तद्रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात ।हतोऽप्येवं तव सैन्येकदेशमपोथयत्कौरवान्भीषयाणः ॥ ६१ ॥
ततो मिश्राः प्राणदन्सिंहनादैर्भेर्यः शङ्खा मुरजाश्चानकाश्च ।दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः ॥ ६२ ॥
ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः ।अन्वारूढस्तव पुत्रं रथस्थं हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ॥ ६३ ॥
« »